वैशम्पायन उवाच 001
ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह 001a
क्रमेण पृथिवीपाल नैमिषारण्यमागताः 001c
ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप 002a
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत 002c
तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः 003a
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः 003c
वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः 004a
बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् 004c
प्रयागे देवयजने देवानां पृथिवीपते 005a
ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् 005c
गङ्गायमुनयोश्चैव सङ्गमे सत्यसङ्गराः 006a
विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु 006c
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः 007a
जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत 007c
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् 008a
सन्तर्पयन्तः सततं वन्येन हविषा द्विजान् 008c
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् 009a
राजर्षिणा पुण्यकृता गयेनानुपमद्युते 009c
सरो गयशिरो यत्र पुण्या चैव महानदी 010a
ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् 010c
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति 011a
उवास च स्वयं यत्र धर्मो राजन्सनातनः 011c
सर्वासां सरितां चैव समुद्भेदो विशां पते 012a
यत्र सन्निहितो नित्यं महादेवः पिनाकधृक् 012c
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे 013a
ऋषियज्ञेन महता यत्राक्षयवटो महान् 013c
ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः 014a
चातुर्मास्येनायजन्त आर्षेण विधिना तदा 014c
तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः 015a
कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् 015c
तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः 016a
शमठोऽकथयद्राजन्नामूर्तरयसं गयम् 016c
अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः 017a
पुण्यानि यस्य कर्माणि तानि मे शृणु भारत 017c
यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः 018a
यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः 018c
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा 019a
व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः 019c
अहन्यहनि चाप्येतद्याचतां सम्प्रदीयते 020a
अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् 020c
तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः 021a
न स्म प्रज्ञायते किञ्चिद्ब्रह्मशब्देन भारत 021c
पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा 022a
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् 022c
तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ 023a
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः 023c
गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः 024a
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः 024c
न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे 025a
गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः 025c
कथं नु देवा हविषा गयेन परितर्पिताः 026a
पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् 026c
एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः 027a
बभूवुरस्य सरसः समीपे कुरुनन्दन 027c