युधिष्ठिर उवाच 001
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम 001a
तथास्मि दुःखसम्तप्तो यथा नान्यो महीपतिः 001c
परांश्च निर्गुणान्मन्ये न च धर्मरतानपि 002a
ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना 002c
लोमश उवाच 003
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथञ्चन 003a
यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः 003c
वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति 004a
ततः सपत्नाञ्जयति समूलस्तु विनश्यति 004c
मया हि दृष्टा दैतेया दानवाश्च महीपते 005a
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः 005c
पुरा देवयुगे चैव दृष्टं सर्वं मया विभो 006a
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः 006c
तीर्थानि देवा विविशुर्नाविशन्भारतासुराः 007a
तानधर्मकृतो दर्पः पूर्वमेव समाविशत् 007c
दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत 008a
क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् 008c
तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान् 009a
क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः 009c
लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप 009e
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः 010a
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः 010c
तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा 011a
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः 011c
मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत 012a
निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः 012c
देवास्तु सागरांश्चैव सरितश्च सरांसि च 013a
अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च 013c
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव 014a
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे 014c
एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः 015a
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् 015c
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः 016a
पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः 016c
यथैव हि नृगो राजा शिबिरौशीनरो यथा 017a
भगीरथो वसुमना गयः पूरुः पुरूरवाः 017c
चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते 018a
तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् 018c
अलभन्त यशः पुण्यं धनानि च विशां पते 019a
तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम् 019c
यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः 020a
मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः 020c
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् 021a
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे 021c
धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः 022a
नचिराद्विनशिष्यन्ति दैत्या इव न संशयः 022c