वैशम्पायन उवाच 001
ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः 001a
अभिगम्य तदा राजन्निदं वचनमब्रुवन् 001c
राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह 002a
देवर्षिणा च सहितो लोमशेन महात्मना 002c
अस्मानपि महाराज नेतुमर्हसि पाण्डव 003a
अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव 003c
श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि च 004a
अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर 004c
भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा 005a
भवद्भिः पालिताः शूरैर्गच्छेम वयमप्युत 005c
भवत्प्रसादाद्धि वयं प्राप्नुयाम फलं शुभम् 006a
तीर्थानां पृथिवीपाल व्रतानां च विशां पते 006c
तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः 007a
भवेम धूतपाप्मानस्तीर्थसन्दर्शनान्नृप 007c
भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत 008a
अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह 008c
भरतस्य च वीरस्य सार्वभौमस्य पार्थिव 009a
ध्रुवं प्राप्स्यसि दुष्प्रापाल्ँलोकांस्तीर्थपरिप्लुतः 009c
प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् 010a
गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन् 010c
त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् 010e
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप 011a
कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे 011c
तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा 012a
अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि 012c
तीर्थान्युक्तानि धौम्येन नारदेन च धीमता 013a
यान्युवाच च देवर्षिर्लोमशः सुमहातपाः 013c
विधिवत्तानि सर्वाणि पर्यटस्व नराधिप 014a
धूतपाप्मा सहास्माभिर्लोमशेन च पालितः 014c
स तथा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः 015a
भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः 015c
बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः 015e
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् 016a
ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी 016c
द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे 016e
अथ व्यासो महाभागस्तथा नारदपर्वतौ 017a
काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः 017c
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि 018a
सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् 018c
युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम् 019a
मनसा कृतशौचा वै शुद्धास्तीर्थानि गच्छत 019c
शरीरनियमं ह्याहुर्ब्राह्मणा मानुषं व्रतम् 020a
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः 020c
मनो ह्यदुष्टं शूराणां पर्याप्तं वै नराधिप 021a
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत 021c
ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः 022a
दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ 022c
ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः 023a
कृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः 023c
लोमशस्योपसङ्गृह्य पादौ द्वैपायनस्य च 024a
नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च 024c
धौम्येन सहिता वीरास्तथान्यैर्वनवासिभिः 025a
मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः 025c
कठिनानि समादाय चीराजिनजटाधराः 026a
अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्तदा 026c
इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः 027a
महानसव्यापृतैश्च तथान्यैः परिचारकैः 027c
सायुधा बद्धनिष्ट्रिंशास्तूणवन्तः समार्गणाः 028a
प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय 028c