लोमश उवाच 001
धनञ्जयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर 001a
युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया 001c
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन 002a
श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् 002c
स भवान्यत्परं वेद पावनं पुरुषान्प्रति 003a
तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम् 003c
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः 004a
तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत् 004c
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः 005a
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च 005c
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् 006a
तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम 006c
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः 007a
त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात् 007c
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च 008a
रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह 008c
द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन 009a
इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह 009c
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर 010a
मन्वादिभिर्महाराज तीर्थयात्रा भयापहा 010c
नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत् 011a
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः 011c
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसङ्गरः 012a
विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि 012c
यथा भगीरथो राजा राजानश्च गयादयः 013a
यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव 013c
युधिष्ठिर उवाच 014
न हर्षात्सम्प्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् 014a
स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः 014c
भवता सङ्गमो यस्य भ्राता यस्य धनञ्जयः 015a
वासवः स्मरते यस्य को नामाभ्यधिकस्ततः 015c
यच्च मां भगवानाह तीर्थानां दर्शनं प्रति 016a
धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे 016c
तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने 017a
तदैव गन्तास्मि दृढमेष मे निश्चयः परः 017c
वैशम्पायन उवाच 018
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् 018a
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि 018c
युधिष्ठिर उवाच 019
भिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये 019a
ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः 019c
धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते 020a
स दास्यति यथाकालमुचिता यस्य या भृतिः 020c
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः 021a
अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति 021c
वैशम्पायन उवाच 022
ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः 022a
विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति 022c
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः 023a
प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् 023c
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह 024a
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् 024c