वैशम्पायन उवाच 001
एवं सम्भाषमाणे तु धौम्ये कौरवनन्दन 001a
लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह 001c
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते 002a
उदतिष्ठन्महाभागं दिवि शक्रमिवामराः 002c
तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः 003a
पप्रच्छागमने हेतुमटने च प्रयोजनम् 003c
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः 004a
उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् 004c
सञ्चरन्नस्मि कौन्तेय सर्वलोकान्यदृच्छया 005a
गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् 005c
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् 006a
शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् 006c
आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् 006e
आह मां तत्र देवेशो गच्छ पाण्डुसुतानिति 007a
सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् 007c
वचनात्पुरुहूतस्य पार्थस्य च महात्मनः 008a
आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन 008c
भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु 009a
यत्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ 009c
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत् 010a
यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम् 010c
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना 011a
तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् 011c
वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर 012a
यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन 012c
अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः 012e
विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च 013a
वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि 013c
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान् 014a
सुखं वसति बीभत्सुरनुजस्यानुजस्तव 014c
यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् 015a
तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे 015c
भवान्मनुष्यलोकाय गमिष्यति न संशयः 016a
ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम 016c
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः 017a
सुरकार्यं महत्कृत्वा यदाशक्यं दिवौकसैः 017c
तपसा तु त्वमात्मानं भ्रातृभिः सह योजय 018a
तपसो हि परं नास्ति तपसा विन्दते महत् 018c
अहं च कर्णं जानामि यथावद्भरतर्षभ 019a
न स पार्थस्य सङ्ग्रामे कलामर्हति षोडशीम् 019c
यच्चापि ते भयं तस्मान्मनसिस्थमरिन्दम 020a
तच्चाप्यपहरिष्यामि सव्यसाचाविहागते 020c
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति 021a
तच्च ते लोमशः सर्वं कथयिष्यत्यसंशयम् 021c
यच्च किञ्चित्तपोयुक्तं फलं तीर्थेषु भारत 022a
महर्षिरेष यद्ब्रूयात्तच्छ्रद्धेयमनन्यथा 022c