धौम्य उवाच 001
उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै 001a
तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च 001c
सरस्वती पुण्यवहा ह्रदिनी वनमालिनी 002a
समुद्रगा महावेगा यमुना यत्र पाण्डव 002c
तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम् 003a
यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः 003c
पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ 004a
सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत 004c
एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर 005a
गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः 005c
अग्नयः सहदेवेन ये चिता यमुनामनु 006a
शतं शतसहस्राणि सहस्रशतदक्षिणाः 006c
तत्रैव भरतो राजा चक्रवर्ती महायशाः 007a
विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत् 007c
कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा 008a
अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः 008c
सरस्वती नदी सद्भिः सततं पार्थ पूजिता 009a
वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा 009c
दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर 010a
तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप 010c
वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ 011a
यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम 011c
समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा 012a
विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै 012c
ऋषिर्महान्महाभागो जमदग्निर्महायशाः 013a
पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः 013c
यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम् 014a
स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे 014c
अपि चात्र महाराज स्वयं विश्वावसुर्जगौ 015a
इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः 015c
यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः 016a
आगम्य सरितः सर्वा मधुना समतर्पयन् 016c
गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम् 017a
किरातकिन्नरावासं शैलं शिखरिणां वरम् 017c
बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर 018a
पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् 018c
सनत्कुमारः कौरव्य पुण्यं कनखलं तथा 019a
पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः 019c
भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः 020a
स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः 020c
यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ 021a
नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः 021c
तस्यातियशसः पुण्यां विशालां बदरीमनु 022a
आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः 022c
उष्णतोयवहा गङ्ग शीततोयवहापरा 023a
सुवर्णसिकता राजन्विशालां बदरीमनु 023c
ऋषयो यत्र देवाश्च महाभागा महौजसः 024a
प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम् 024c
यत्र नारायणो देवः परमात्मा सनातनः 025a
तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च 025c
तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् 026a
तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः 026c
आदिदेवो महायोगी यत्रास्ते मधुसूदनः 027a
पुण्यानामपि तत्पुण्यं तत्र ते संशयोऽस्तु मा 027c
एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते 028a
कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च 028c
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः 029a
ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः 029c
चरन्नेतानि कौन्तेय सहितो ब्राह्मणर्षभैः 030a
भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि 030c