धौम्य उवाच 001
अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि 001a
यानि तत्र पवित्राणि पुण्यान्यायतनानि च 001c
प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी 002a
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत 002c
निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः 003a
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः 003c
वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः 004a
दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः 004c
तस्य शैलस्य शिखरे सरस्तत्र च धीमतः 005a
प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम् 005c
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते 006a
पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते 006c
ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् 007a
विश्वामित्रनदी पारा पुण्या परपुरञ्जय 007c
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः 008a
पपात स पुनर्लोकाल्ँलेभे धर्मान्सनातनान् 008c
तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतः 009a
बहुमूलफलो वीर असितो नाम पर्वतः 009c
आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर 010a
च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव 010c
तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो 010e
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् 011a
आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः 011c
ततः पुण्यतमा राजन्सततं तापसायुता 012a
केतुमाला च मेध्या च गङ्गारण्यं च भूमिप 012c
ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् 012e
पितामहसरः पुण्यं पुष्करं नाम भारत 013a
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः 013c
अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ 014a
पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर 014c
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः 015a
पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते 015c