धौम्य उवाच 001
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत 001a
विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत 001c
यस्यामाख्यायते पुण्या दिशि गोदावरी नदी 002a
बह्वारामा बहुजला तापसाचरिता शुभा 002c
वेण्णा भीमरथी चोभे नद्यौ पापभयापहे 003a
मृगद्विजसमाकीर्णे तापसालयभूषिते 003c
राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ 004a
रम्यतीर्था बहुजला पयोष्णी द्विजसेविता 004c
अपि चात्र महायोगी मार्कण्डेयो महातपाः 005a
अनुवंष्यां जगौ गाथां नृगस्य धरणीपतेः 005c
नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् 006a
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः 006c
माठरस्य वनं पुण्यं बहुमूलफलं शिवम् 007a
यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ 007c
प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा 008a
तापसानामरण्यानि कीर्तितानि यथाश्रुति 008c
वेदी शूर्पारके तात जमदग्नेर्महात्मनः 009a
रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत 009c
अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् 010a
अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर 010c
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ 011a
ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु 011c
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे 012a
गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत 012c
शीततोयो बहुजलः पुण्यस्तात शिवश्च सः 013a
ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः 013c
तत्रैव तृणसोमाग्नेः सम्पन्नफलमूलवान् 014a
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ 014c
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः 015a
अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः 015c
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च 016a
आश्रमान्सरितः शैलान्सरांसि च नराधिप 016c
चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत 017a
प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर 017c
तत्र पिण्डारकं नाम तापसाचरितं शुभम् 018a
उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् 018c
तत्र देवर्षिवर्येण नारदेनानुकीर्तितः 019a
पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर 019c
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते 020a
उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते 020c
पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः 021a
साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः 021c
ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः 022a
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् 022c
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते 023a
पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् 023c
त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः 024a
आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः 024c