वैशम्पायन उवाच 001
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः 001a
आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् 001c
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ 002a
दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप 002c
पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम् 003a
रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति 003c
तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत 004a
यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् 004c
यत्र सा गोमती पुण्या रम्या देवर्षिसेविता 005a
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः 005c
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः 006a
शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः 006c
यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः 007a
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् 007c
महानदी च तत्रैव तथा गयशिरोऽनघ 008a
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः 008c
यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो 008e
सा च पुण्यजला यत्र फल्गुनामा महानदी 009a
बहुमूलफला चापि कौशिकी भरतर्षभ 009c
विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः 009e
गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः 010a
अयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः 010c
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् 011a
विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः 011c
यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ 011e
विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम् 012a
कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः 012c
ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत् 012e
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् 013a
गङ्गायमुनयोर्वीर सङ्गमं लोकविश्रुतम् 013c
यत्रायजत भूतात्मा पूर्वमेव पितामहः 014a
प्रयागमिति विख्यातं तस्माद्भरतसत्तम 014c
अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान् 015a
हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे नृप 015c
अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः 016a
महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः 016c
अयजद्यत्र कौन्तेय पूर्वमेव पितामहः 017a
यत्र भागीरथी पुण्या सदस्यासीद्युधिष्ठिर 017c
यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते 018a
धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् 018c
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः 019a
केदारश्च मतङ्गस्य महानाश्रम उत्तमः 019c
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः 020a
नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् 020c
यत्र देववनं रम्यं तापसैरुपशोभितम् 021a
बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि 021c
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च 022a
प्राच्यां दिशि महाराज कीर्तितानि मया तव 022c
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु 023a
सरितः पर्वतांश्चैव पुण्यान्यायतनानि च 023c