वैशम्पायन उवाच 001
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः 001a
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः 001c
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः 002a
अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः 002c
स हि वीरोऽनुरक्तश्च समर्थश्च तपोधन 003a
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः 003c
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ 004a
अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् 004c
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ 004e
नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम 005a
तथाहमपि जानामि नरनारायणावृषी 005c
शक्तोऽयमित्यतो मत्वा मया सम्प्रेषितोऽर्जुनः 006a
इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् 006c
द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः 006e
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः 007a
धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः 007c
सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा 007e
योद्धुकामश्च पार्थेन सततं यो महाबलः 008a
स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः 008c
सोऽश्ववेगानिलबलः शरार्चिस्तलनिस्वनः 009a
रजोधूमोऽस्त्रसन्तापो धार्तराष्ट्रानिलोद्धतः 009c
निसृष्ट इव कालेन युगान्तज्वलनो यथा 010a
मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः 010c
तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् 011a
श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः 011c
सततं शरधाराभिः प्रदीप्तं कर्णपावकम् 012a
उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे 012c
स साक्षादेव सर्वाणि शक्रात्परपुरञ्जयः 013a
दिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते 013c
अलं स तेषां सर्वेषामिति मे धीयते मतिः 014a
नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया 014c
तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनञ्जयम् 015a
द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति 015c
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर 016a
अवधानं न गच्छामः काम्यके सह कृष्णया 016c
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि 017a
आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः 017c
यत्र कञ्चिद्वयं कालं वसन्तः सत्यविक्रमम् 018a
प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् 018c
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान् 019a
सरांसि सरितश्चैव रमणीयांश्च पर्वतान् 019c
आचक्ष्व न हि नो ब्रह्मन्रोचते तमृतेऽर्जुनम् 020a
वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति 020c