पुलस्त्य उवाच 001
अथ सन्ध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् 001a
उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः 001c
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा 002a
तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् 002c
करतोयां समासाद्य त्रिरात्रोपोषितो नरः 003a
अश्वमेधमवाप्नोति कृते पैतामहे विधौ 003c
गङ्गायास्त्वथ राजेन्द्र सागरस्य च सङ्गमे 004a
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 004c
गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत 005a
त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात् 005c
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् 006a
विरजं तीर्थमासाद्य विराजति यथा शशी 006c
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति 007a
गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः 007c
शोणस्य ज्योतिरथ्याश्च सङ्गमे निवसञ्शुचिः 008a
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् 008c
शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन 009a
वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् 009c
ऋषभं तीर्थमासाद्य कोशलायां नराधिप 010a
वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः 010c
कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् 011a
वृषभैकादशफलं लभते नात्र संशयः 011c
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः 012a
गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् 012c
ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः 013a
दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति 013c
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् 014a
रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् 014c
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन 015a
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् 015c
श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् 016a
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति 016c
श्रीपर्वते महादेवो देव्या सह महाद्युतिः 017a
न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः 017c
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः 018a
अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति 018c
ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् 019a
वाजपेयमवाप्नोति नाकपृष्ठे च मोदते 019c
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः 020a
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् 020c
ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् 021a
तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते 021c
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् 022a
समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् 022c
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः 023a
भूतयक्षपिशाचाश्च किन्नराः समहोरगाः 023c
सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा 024a
सरितः सागराः शैला उपासन्त उमापतिम् 024c
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः 025a
दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति 025c
उष्य द्वादशरात्रं तु कृतात्मा भवते नरः 025e
तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् 026a
त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् 026c
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप 027a
गायत्रीं पठते यस्तु योनिसङ्करजस्तथा 027c
गाथा वा गीतिका वापि तस्य सम्पद्यते नृप 027e
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् 028a
रूपस्य भागी भवति सुभगश्चैव जायते 028c
ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः 029a
मयूरहंससंयुक्तं विमानं लभते नरः 029c
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् 030a
गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात् 030c
वेण्णायाः सङ्गमे स्नात्वा वाजपेयफलं लभेत् 031a
वरदासङ्गमे स्नात्वा गोसहस्रफलं लभेत् 031c
ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः 032a
गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति 032c
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः 033a
त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् 033c
ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे 034a
जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप 034c
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः 035a
अग्निष्टोमशतं विन्देद्गमनादेव भारत 035c
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् 036a
जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः 036c
ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् 037a
पितृदेवार्चनरतो गोसहस्रफलं लभेत् 037c
दण्डकारण्यमासाद्य महाराज उपस्पृशेत् 038a
गोसहस्रफलं तत्र स्नातमात्रस्य भारत 038c
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः 039a
न दुर्गतिमवाप्नोति पुनाति च कुलं नरः 039c
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् 040a
रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् 040c
सप्तगोदावरे स्नात्वा नियतो नियताशनः 041a
महत्पुण्यमवाप्नोति देवलोकं च गच्छति 041c
ततो देवपथं गच्छेन्नियतो नियताशनः 042a
देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः 042c
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः 043a
वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा 043c
तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः 044a
उपविष्टो महर्षीणामुत्तरीयेषु भारत 044c
ओङ्कारेण यथान्यायं सम्यगुच्चारितेन च 045a
येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् 045c
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः 046a
हरिर्नारायणो देवो महादेवस्तथैव च 046c
पितामहश्च भगवान्देवैः सह महाद्युतिः 047a
भृगुं नियोजयामास याजनार्थे महाद्युतिम् 047c
ततः स चक्रे भगवानृषीणां विधिवत्तदा 048a
सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा 048c
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि 049a
देवास्त्रिभुवणं याता ऋषयश्च यथासुखम् 049c
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम 050a
पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा 050c
तत्र मासं वसेद्धीरो नियतो नियताशनः 051a
ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः 051c
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् 052a
अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति 052c
ततः कालञ्जरं गत्वा पर्वतं लोकविश्रुतम् 053a
तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् 053c
आत्मानं साधयेत्तत्र गिरौ कालञ्जरे नृप 054a
स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः 054c
ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते 055a
मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् 055c
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः 056a
अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् 056c
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् 057a
यत्र देवो महासेनो नित्यं सन्निहितो नृपः 057c
पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति 058a
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् 058c
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः 059a
अभिगम्य महादेवं विराजति यथा शशी 059c
तत्र कूपो महाराज विश्रुतो भरतर्षभ 060a
समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर 060c
तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् 061a
नियतात्मा नरः पूतो गच्छेत परमां गतिम् 061c
ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् 062a
यत्र तीर्णो महाराज रामो दाशरथिः पुरा 062c
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः 063a
विधूतपाप्मा भवति वाजपेयं च विन्दति 063c
अभिगम्य महादेवमभ्यर्च्य च नराधिप 064a
प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् 064c
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् 065a
यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः 065c
लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा 066a
सनत्कुमारप्रमुखास्तथैव परमर्षयः 066c
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे 067a
तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा 067c
सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा 068a
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः 068c
तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी 069a
प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता 069c
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता 070a
यमुना गङ्गया सार्धं सङ्गता लोकपावनी 070c
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् 071a
प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः 071c
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा 072a
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः 072c
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर 073a
प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः 073c
यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप 073e
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत 074a
प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो 074c
श्रवणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि 075a
मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते 075c
तत्राभिषेकं यः कुर्यात्सङ्गमे संशितव्रतः 076a
पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः 076c
एषा यजनभूमिर्हि देवानामपि सत्कृता 077a
तत्र दत्तं सूक्ष्ममपि महद्भवति भारत 077c
न वेदवचनात्तात न लोकवचनादपि 078a
मतिरुत्क्रमणीया ते प्रयागमरणं प्रति 078c
दश तीर्थसहस्राणि षष्टिकोट्यस्तथापराः 079a
येषां सान्निध्यमत्रैव कीर्तितं कुरुनन्दन 079c
चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत् 080a
स्नात एव तदाप्नोति गङ्गायमुनसङ्गमे 080c
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् 081a
तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् 081c
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् 082a
दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन 082c
यत्र गङ्गा महाराज स देशस्तत्तपोवनम् 083a
सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् 083c
इदं सत्यं द्विजातीनां साधूनामात्मजस्य च 084a
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च 084c
इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम् 085a
इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम् 085c
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् 086a
अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् 086c
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः 087a
जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते 087c
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च 088a
मनसा तानि गच्छेत सर्वतीर्थसमीक्षया 088c
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः 089a
ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः 089c
एवं त्वमपि कौरव्य विधिनानेन सुव्रत 090a
व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते 090c
भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् 091a
प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः 091c
नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः 092a
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः 092c
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना 093a
पितरस्तारितास्तात सर्वे च प्रपितामहाः 093c
पितामहपुरोगाश्च देवाः सर्षिगणा नृप 094a
तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः 094c
अवाप्स्यसि च लोकान्वै वसूनां वासवोपम 095a
कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् 095c
नारद उवाच 096
एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः 096a
प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत 096c
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् 097a
पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे 097c
अनेन विधिना यस्तु पृथिवीं सञ्चरिष्यति 098a
अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते 098c
अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् 099a
नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् 099c
रक्षोगणावकीर्णानि तीर्थान्येतानि भारत 100a
न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन 100c
इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् 101a
यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते 101c
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः 102a
आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः 102c
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः 103a
भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा 103c
शौनकः सह पुत्रेण व्यासश्च जपतां वरः 104a
दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः 104c
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः 105a
एभिः सह महाराज तीर्थान्येतान्यनुव्रज 105c
एष वै लोमशो नाम देवर्षिरमितद्युतिः 106a
समेष्यति त्वया चैव तेन सार्धमनुव्रज 106c
मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज 107a
प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः 107c
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः 108a
तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे 108c
यथा भगीरथो राजा यथा रामश्च विश्रुतः 109a
तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव 109c
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः 110a
यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः 110c
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा 111a
तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि 111c
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन 112a
ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा 112c
वैशम्पायन उवाच 113
एवमाश्वास्य राजानं नारदो भगवानृषिः 113a
अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत 113c
युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन् 114a
तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत् 114c