पुलस्त्य उवाच 001
ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् 001a
तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः 001c
आसप्तमं कुलं राजन्पुनीते नात्र संशयः 001e
ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम् 002a
अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति 002c
सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः 003a
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः 003c
सिद्धचारणगन्धर्वाः किन्नराः समहोरगाः 004a
तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते 004c
ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी 005a
प्लक्षाद्देवी स्रुता राजन्महापुण्या सरस्वती 005c
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले 006a
अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् 006c
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् 007a
षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः 007c
कपिलानां सहस्रं च वाजिमेधं च विन्दति 008a
तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने 008c
सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत 009a
अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते 009c
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत 010a
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 010c
गाणपत्यं स लभते देहं त्यक्त्वा न संशयः 010e
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् 011a
शाकम्भरीति विख्याता त्रिषु लोकेषु विश्रुता 011c
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत 012a
आहारं सा कृतवती मासि मासि नराधिप 012c
ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः 013a
आतिथ्यं च कृतं तेषां शाकेन किल भारत 013c
ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् 013e
शाकम्भरीं समासाद्य ब्रह्मचारी समाहितः 014a
त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः 014c
शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् 015a
तत्फलं तस्य भवति देव्याश्छन्देन भारत 015c
ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् 016a
यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा 016c
वरांश्च सुबहूल्ँलेभे दैवतेषु सुदुर्लभान् 017a
उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत 017c
अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि 018a
त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः 018c
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् 019a
अश्वमेधमवाप्नोति गाणपत्यं च विन्दति 019c
धूमावतीं ततो गच्छेत्त्रिरत्रोपोषितो नरः 020a
मनसा प्रार्थितान्कामाल्ँलभते नात्र संशयः 020c
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप 021a
तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः 021c
महादेवप्रसादाद्धि गच्छेत परमां गतिम् 021e
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ 022a
धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् 022c
तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप 022e
ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् 023a
स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः 023c
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः 024a
पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् 024c
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् 025a
देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते 025c
ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः 026a
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति 026c
कपिलावटं च गच्छेत तीर्थसेवी नराधिप 027a
उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् 027c
नागराजस्य राजेन्द्र कपिलस्य महात्मनाः 028a
तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् 028c
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप 029a
कपिलानां सहस्रस्य फलं प्राप्नोति मानवः 029c
ततो ललितिकां गच्छेच्छन्तनोस्तीर्थमुत्तमम् 030a
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् 030c
गङ्गासङ्गमयोश्चैव स्नाति यः सङ्गमे नरः 031a
दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् 031c
ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् 032a
सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते 032c
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप 033a
तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते 033c
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च सङ्गमे 034a
स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति 034c
भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि 035a
न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति 035c
ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् 036a
गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति 036c
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप 037a
सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः 037c
गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत् 037e
ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः 038a
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति 038c
यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने 039a
अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते 039c
दर्वीसङ्क्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् 040a
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति 040c
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् 041a
तत्रोष्य रजनीः पञ्च विन्द्याद्बहु सुवर्णकम् 041c
अथ वेदीं समासाद्य नरः परमदुर्गमाम् 042a
अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् 042c
ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत 043a
वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः 043c
ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते 044a
यदि तत्र वसेन्मासं शाकाहारो नराधिप 044c
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् 045a
गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते 045c
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत 046a
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् 046c
ततः सन्ध्यां समासाद्य विद्यातीर्थमनुत्तमम् 047a
उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् 047c
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने 048a
एककालं निराहारो लोकानावसते शुभान् 048c
षष्ठकालोपवासेन मासमुष्य महालये 049a
सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम् 049c
अथ वेतसिकां गत्वा पितामहनिषेविताम् 050a
अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् 050c
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् 051a
रूपस्य भागी भवति दृष्टमेतत्पुरातने 051c
ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः 052a
पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते 052c
ततश्च नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् 053a
तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः 053c
नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति 054a
प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते 054c
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः 055a
पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत 055c
अभिषेककृतस्तत्र नियतो नियताशनः 056a
गवामयस्य यज्ञस्य फलं प्राप्नोति भारत 056c
पुनात्यासप्तमं चैव कुलं भरतसत्तम 056e
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः 057a
स मोदेत्स्वर्गलोकस्थ एवमाहुर्मनीषिणः 057c
नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम 057e
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः 058a
वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते 058c
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः 059a
सारस्वतेषु लोकेषु मोदते नात्र संशयः 059c
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः 060a
देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः 060c
ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम् 061a
पितृदेवार्चनरतो वाजपेयमवाप्नुयात् 061c
विमलाशोकमासाद्य विराजति यथा शशी 062a
तत्रोष्य रजनीमेकां स्वर्गलोके महीयते 062c
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् 063a
यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः 063c
देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा 064a
रामस्य च प्रसादेन व्यवसायाच्च भारत 064c
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप 065a
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते 065c
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन 066a
अश्वमेधमवाप्नोति पुनाति च कुलं नरः 066c
शतसाहस्रिकं तत्र तीर्थं भरतसत्तम 067a
तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः 067c
गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ 067e
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् 068a
कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप 068c
गोसहस्रफलं विन्देत्तेजस्वी च भवेन्नरः 068e
ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् 069a
कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् 069c
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् 070a
गोमतीगङ्गयोश्चैव सङ्गमे लोकविश्रुते 070c
अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् 070e
ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः 071a
अश्वमेधमवाप्नोति गमनादेव भारत 071c
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः 072a
पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो 072c
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः 073a
अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् 073c
ततो ब्रह्मसरो गच्छेद्धर्मारण्योपशोभितम् 074a
पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम् 074c
तस्मिन्सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः 075a
यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् 075c
ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् 076a
एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् 076c
सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् 076e
तत्र चिह्नं महाराज अद्यापि हि न संशयः 077a
कपिला सह वत्सेन पर्वते विचरत्युत 077c
सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत 077e
तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम 078a
यत्किञ्चिदशुभं कर्म तत्प्रणश्यति भारत 078c
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः 079a
स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् 079c
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् 080a
इतरेषां तु वर्णानां सर्वपापं प्रणश्यति 080c
गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् 081a
सावित्रं तु पदं तत्र दृश्यते भरतर्षभ 081c
तत्र सन्ध्यामुपासीत ब्राह्मणः संशितव्रतः 082a
उपास्ता च भवेत्सन्ध्या तेन द्वादशवार्षिकी 082c
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ 083a
तत्राभिगम्य मुच्येत पुरुषो योनिसङ्करात् 083c
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः 084a
पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः 084c
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् 085a
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् 085c
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप 086a
अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् 086c
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः 087a
यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर 087c
अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् 087e
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् 088a
तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम् 088c
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 088e
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप 089a
उपस्पृश्य तपोदेषु काक्षीवानिव मोदते 089c
यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः 090a
यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया 090c
मणिनागं ततो गत्वा गोसहस्रफलं लभेत् 091a
नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः 091c
दष्टस्याशीविषेणापि न तस्य क्रमते विषम् 092a
तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते 092c
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप 093a
अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् 093c
अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् 093e
तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः 094a
तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् 094c
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः 095a
तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् 095c
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् 096a
वाजपेयमवाप्नोति सोमलोकं च गच्छति 096c
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् 097a
वाजपेयमवाप्नोति सूर्यलोकं च गच्छति 097c
ततोऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् 098a
गुह्यकेषु महाराज मोदते नात्र संशयः 098c
कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम् 099a
पुण्डरीकमवाप्नोति सूर्यलोकं च गच्छति 099c
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् 100a
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति 100c
अथ माहेश्वरीं धारां समासाद्य नराधिप 101a
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् 101c
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः 102a
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति 102c
महेश्वरपदं गच्छेद्ब्रह्मचारी समाहितः 103a
महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् 103c
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ 104a
कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना 104c
ह्रियमाणाहृता राजन्विष्णुना प्रभविष्णुना 104e
तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर 105a
पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति 105c
ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु 106a
सदा सन्निहितो यत्र हरिर्वसति भारत 106c
शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः 106e
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् 107a
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति 107c
तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः 108a
समुद्रास्तत्र चत्वारः कूपे सन्निहिताः सदा 108c
तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् 108e
अभिगम्य महादेवं वरदं विष्णुमव्ययम् 109a
विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर 109c
जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः 110a
जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः 110c
वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् 111a
ईप्सिताल्ँलभते कामानुपवासान्न संशयः 111c
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् 112a
अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् 112c
भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् 113a
कौशिकीं तत्र सेवेत महापातकनाशिनीम् 113c
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः 113e
ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् 114a
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् 114c
अथ ज्येष्ठिलमासाद्य तीर्थं परमसम्मतम् 115a
उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् 115c
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् 116a
मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ 116c
कन्यासंवेद्यमासाद्य नियतो नियताशनः 117a
मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ 117c
कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत 118a
तदक्षयमिति प्राहुरृषयः संशितव्रताः 118c
निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् 119a
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति 119c
ये तु दानं प्रयच्छन्ति निश्चीरासङ्गमे नराः 120a
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः 120c
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः 121a
तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् 121c
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् 122a
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् 122c
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् 123a
यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः 123c
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ 124a
अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति 124c
सर्वतीर्थवरे चैव यो वसेत महाह्रदे 125a
न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम् 125c
कुमारमभिगत्वा च वीराश्रमनिवासिनम् 126a
अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः 126c
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् 127a
अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते 127c
पितामहसरो गत्वा शैलराजप्रतिष्ठितम् 128a
तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत् 128c
पितामहस्य सरसः प्रस्रुता लोकपावनी 129a
कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता 129c
यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति 130a
षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया 130c
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् 131a
समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् 131c
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः 132a
हयमेधमवाप्नोति शक्रलोकं च गच्छति 132c
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः 133a
अश्वमेधमवाप्नोति शक्रलोकं च गच्छति 133c
नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् 134a
नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह 134c
कालिकासङ्गमे स्नात्वा कौशिक्यारुणयोर्यतः 135a
त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते 135c
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः 136a
कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः 136c
स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः 137a
जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातने 137c
सकृन्नन्दां समासाद्य कृतात्मा भवति द्विजः 138a
सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति 138c
ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिषूदनम् 139a
सरस्वत्यामुपस्पृश्य विमानस्थो विराजते 139c
औद्दालकं महाराज तीर्थं मुनिनिषेवितम् 140a
तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते 140c
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् 141a
वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः 141c
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः 142a
दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत् 142c
लवेडिकां ततो गच्छेत्पुण्यां पुण्योपसेविताम् 143a
वाजपेयमवाप्नोति विमानस्थश्च पूज्यते 143c