पुलस्त्य उवाच 001
ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् 001a
पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः 001c
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् 002a
य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते 002c
तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर 003a
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः 003c
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते 004a
ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत 004c
मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर 005a
पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति 005c
गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह 006a
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 006c
ततो मचक्रुकं राजन्द्वारपालं महाबलम् 007a
यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् 007c
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् 008a
सततं नाम राजेन्द्र यत्र सन्निहितो हरिः 008c
तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् 009a
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति 009c
ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् 010a
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः 010c
पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् 011a
ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप 011c
दशाश्वमेधिके स्नात्वा तदेव लभते फलम् 011e
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् 012a
अग्निष्टोममवाप्नोति नागलोकं च विन्दति 012c
ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् 013a
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् 013c
ततः पञ्चनदं गत्वा नियतो नियताशनः 014a
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् 014c
अश्विनोस्तीर्थमासाद्य रूपवानभिजायते 014e
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् 015a
विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् 015c
तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् 015e
ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् 016a
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः 016c
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् 017a
कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह 017c
पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः 017e
ततो मुञ्जवटं नाम महादेवस्य धीमतः 018a
तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् 018c
तत्रैव च महाराज यक्षी लोकपरिश्रुता 019a
तां चाभिगम्य राजेन्द्र पुण्याल्ँलोकानवाप्नुयात् 019c
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ 020a
प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः 020c
सम्मिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः 021a
जामदग्न्येन रामेण आहृते वै महात्मना 021c
कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति 021e
ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप 022a
यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा 022c
क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः 022e
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् 023a
पितरस्तर्पिताः सर्वे तथैव च पितामहाः 023c
ततस्ते पितरः प्रीता राममूचुर्महीपते 023e
राम राम महाभाग प्रीताः स्म तव भार्गव 024a
अनया पितृभक्त्या च विक्रमेण च ते विभो 024c
वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते 024e
एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः 025a
अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् 025c
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि 026a
पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः 026c
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया 027a
ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् 027c
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः 027e
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा 028a
प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः 028c
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः 029a
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया 029c
ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः 030a
ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः 030c
ह्रदेष्वेतेषु यः स्नात्वा पितॄन्सन्तर्पयिष्यति 031a
पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् 031c
ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् 031e
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा 032a
आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा 032c
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः 033a
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः 033c
राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् 033e
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह 034a
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके 034c
कायशोधनमासाद्य तीर्थं भरतसत्तम 035a
शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः 035c
शुद्धदेहश्च संयाति शुभाल्ँलोकाननुत्तमान् 035e
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् 036a
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना 036c
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् 037a
स्नात्वा तीर्थवरे राजल्ँलोकानुद्धरते स्वकान् 037c
श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम् 037e
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः 038a
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा 038c
कपिलानां सहस्रस्य फलं विन्दति मानवः 038e
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः 039a
अर्चयित्वा पितॄन्देवानुपवासपरायणः 039c
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति 039e
गवाम्भवनमासाद्य तीर्थसेवी यथाक्रमम् 040a
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् 040c
शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह 041a
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् 041c
ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम् 042a
तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः 042c
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् 042e
ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप 043a
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् 043c
ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् 044a
यत्र सन्निहिता नित्यं पितरो दैवतैः सह 044c
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 045a
अश्वमेधमवाप्नोति पितृलोकं च गच्छति 045c
ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् 046a
कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम 046c
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते 046e
मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत 047a
प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम् 047c
ततः शीतवनं गच्छेन्नियतो नियताशनः 048a
तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् 048c
पुनाति दर्शनादेव दण्डेनैकं नराधिप 049a
केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत 049c
तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् 050a
यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः 050c
श्वानलोमापनयने तीर्थे भरतसत्तम 051a
प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः 051c
पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् 052a
दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते 052c
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् 052e
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् 053a
यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः 053c
अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः 053e
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः 054a
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते 054c
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते 055a
आपगा नाम विख्याता नदी सिद्धनिषेविता 055c
श्यामाकभोजनं तत्र यः प्रयच्छति मानवः 056a
देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत् 056c
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता 056e
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा 057a
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् 057c
ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् 058a
ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत 058c
तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुङ्गव 059a
केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः 059c
ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः 060a
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते 060c
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् 061a
अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः 061c
ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् 062a
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् 062c
लभते सर्वकामान्हि स्वर्गलोकं च गच्छति 062e
तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन 063a
रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते 063c
इलास्पदं च तत्रैव तीर्थं भरतसत्तम 063e
तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत 064a
न दुर्गतिमवाप्नोति वाजपेयं च विन्दति 064c
किन्दाने च नरः स्नात्वा किञ्जप्ये च महीपते 065a
अप्रमेयमवाप्नोति दानं जप्यं च भारत 065c
कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः 066a
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 066c
सरकस्य तु पूर्वेण नारदस्य महात्मनः 067a
तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् 067c
तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत 068a
नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान् 068c
शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् 069a
तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत् 069c
ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् 070a
तत्र वैतरणी पुण्या नदी पापप्रमोचनी 070c
तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् 071a
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् 071c
ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् 072a
यत्र देवाः सदा राजन्फलकीवनमाश्रिताः 072c
तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् 072e
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः 073a
अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत 073c
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम 074a
गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः 074c
पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः 075a
राजसूयमवाप्नोति ऋषिलोकं च गच्छति 075c
ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् 076a
तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना 076c
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् 077a
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः 077c
ततो व्यासवनं गच्छेन्नियतो नियताशनः 078a
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् 078c
गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः 079a
तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः 079c
स देव्या समनुज्ञातो गोसहस्रफलं लभेत् 079e
कौशिक्याः सङ्गमे यस्तु दृषद्वत्याश्च भारत 080a
स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते 080c
ततो व्यासस्थली नाम यत्र व्यासेन धीमता 081a
पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः 081c
कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा 082a
अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् 082c
किन्दत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च 083a
गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह 083c
अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे 084a
तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् 084c
मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् 085a
तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः 085c
शूलपाणिं महादेवमश्वमेधफलं लभेत् 085e
देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् 086a
अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् 086c
तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् 087a
सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् 087c
कुलम्पुने नरः स्नात्वा पुनाति स्वकुलं नरः 088a
पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् 088c
तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते 088e
अमराणां ह्रदे स्नात्वा अमरेषु नराधिप 089a
अमराणां प्रभावेन स्वर्गलोके महीयते 089c
शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि 090a
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् 090c
श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम 091a
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् 091c
ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह 092a
ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः 092c
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा 092e
ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम 093a
ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् 093c
तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् 094a
कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् 094c
ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् 095a
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः 095c
ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् 095e
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् 096a
तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् 096c
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप 097a
यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः 097c
पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम् 098a
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् 098c
स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः 099a
प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः 099c
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् 100a
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् 100c
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः 101a
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप 101c
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि 101e
ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा 102a
सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत 102c
अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् 103a
हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव 103c
ऋषिरुवाच 104
किं न पश्यसि मे देव कराच्छाकरसं स्रुतम् 104a
यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः 104c
पुलस्त्य उवाच 105
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् 105a
अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् 105c
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता 106a
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ 106c
ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् 107a
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः 107c
नान्यं देवमहं मन्ये रुद्रात्परतरं महत् 108a
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् 108c
त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् 109a
त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये 109c
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया 110a
त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोऽनघ 110c
सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह 111a
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः 111c
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् 111e
ऋषिरुवाच 112
त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै 112a
पुलस्त्य उवाच 113
ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् 113a
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा 113c
आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने 114a
सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् 114c
न तेषां दुर्लभं किञ्चिदिह लोके परत्र च 115a
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः 115c
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् 116a
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः 116c
कार्त्तिकेयश्च भगवांस्त्रिसन्ध्यं किल भारत 117a
सान्निध्यमकरोत्तत्र भार्गवप्रियकाम्यया 117c
कपालमोचनं तीर्थं सर्वपापप्रमोचनम् 118a
तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते 118c
अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ 119a
अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् 119c
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम 120a
तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते 120c
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः 121a
तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते 121c
पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः 121e
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् 122a
पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप 122c
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 122e
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा 123a
यत्किञ्चिदशुभं कर्म कृतं मानुषबुद्धिना 123c
तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत 124a
अश्वमेधफलं चापि स्वर्गलोकं च गच्छति 124c
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् 125a
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् 125c
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् 126a
पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् 126c
गीतं सनत्कुमारेण व्यासेन च महात्मना 127a
वेदे च नियतं राजनभिगच्छेत्पृथूदकम् 127c
पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम 128a
एतन्मेध्यं पवित्रं च पावनं च न संशयः 128c
तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः 129a
पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः 129c
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम 130a
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् 130c
ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् 131a
सरस्वत्यारुणायाश्च सङ्गमं लोकविश्रुतम् 131c
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया 132a
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः 132c
आसप्तमं कुलं चैव पुनाति भरतर्षभ 133a
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह 133c
विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा 133e
व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः 134a
क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः 134c
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ 135a
चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने 135c
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा 136a
येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात् 136c
फलानि गोसहस्राणां चतुर्णां विन्दते च सः 136e
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् 137a
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते 137c
उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् 138a
दानं वाप्युपवासो वा सहस्रगुणितं भवेत् 138c
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् 139a
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 139c
सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् 139e
विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः 140a
प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते 140c
ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः 141a
पुण्येन महता युक्तः सतां लोके महीयते 141c
यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः 142a
तमर्चयित्वा देवेशं गमनादेव सिध्यति 142c
औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा 143a
यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः 143c
सेनापत्येन देवानामभिषिक्तो गुहस्तदा 143e
औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह 144a
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः 144c
सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते 144e
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः 145a
स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति 145c
ततो गच्छेदनरकं तीर्थसेवी नराधिप 146a
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् 146c
तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते 147a
अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः 147c
सान्निध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह 148a
अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् 148c
तत्रैव च महाराज विश्वेश्वरमुमापतिम् 149a
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः 149c
नारायणं चाभिगम्य पद्मनाभमरिन्दमम् 150a
शोभमानो महाराज विष्णुलोकं प्रपद्यते 150c
तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ 151a
सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा 151c
ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप 152a
पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः 152c
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 152e
गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ 153a
तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते 153c
तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते 153e
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् 154a
गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम् 154c
ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम् 155a
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् 155c
बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः 156a
बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः 156c
सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः 157a
त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप 157c
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप 158a
अहोरात्रोपवासेन शक्रलोके महीयते 158c
एकरात्रं समासाद्य एकरात्रोषितो नरः 159a
नियतः सत्यवादी च ब्रह्मलोके महीयते 159c
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् 160a
आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः 160c
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् 161a
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् 161c
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह 162a
सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः 162c
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः 163a
तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् 163c
यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः 164a
तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् 164c
सारस्वतीं गतिं चैव लभते नात्र संशयः 164e
ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् 165a
त्रिरात्रोपोषितो राजन्नुपवासपरायणः 165c
लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति 165e
ततो गच्छेत धर्मज्ञ तीर्थं सन्निहितीमपि 166a
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः 166c
मासि मासि समायान्ति पुण्येन महतान्विताः 166e
सन्निहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे 167a
अश्वमेधशतं तेन इष्टं भवति शाश्वतम् 167c
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च 168a
नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च 168c
उदपानाश्च वप्राश्च पुण्यान्यायतनानि च 169a
मासि मासि समायान्ति सन्निहित्यां न संशयः 169c
यत्किञ्चिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा 170a
स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः 170c
पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति 170e
अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम् 171a
कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम् 171c
गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम 172a
तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः 172c
राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् 172e
पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् 173a
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते 173c
पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः 174a
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् 174c
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् 175a
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे 175c
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् 176a
अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते 176c
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् 177a
तदावसन्ति ये राजन्न ते शोच्याः कथञ्चन 177c
तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य 178a
एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते 178c