वैशम्पायन उवाच 001
धनञ्जयोत्सुकास्ते तु वने तस्मिन्महारथाः 001a
न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः 001c
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् 002a
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् 002c
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः 003a
विबभावतिदीप्तौजा देवैरिव शतक्रतुः 003c
यथा च वेदान्सावित्री याज्ञसेनी तथा सती 004a
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा 004c
प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः 005a
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ 005c
उवाच च महात्मानं धर्मराजं युधिष्ठिरम् 006a
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते 006c
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह 007a
उवाच प्राञ्जलिर्वाक्यं नारदं देवसम्मितम् 007c
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते 008a
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत 008c
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ 009a
सन्देहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि 009c
प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः 010a
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि 010c
नारद उवाच 011
शृणु राजन्नवहितो यथा भीष्मेण भारत 011a
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् 011c
पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः 012a
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा 012c
शुभे देशे महाराज पुण्ये देवर्षिसेविते 013a
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते 013c
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः 014a
ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा 014c
कस्यचित्त्वथ कालस्य जपन्नेव महातपाः 015a
ददर्शाद्भुतसङ्काशं पुलस्त्यमृषिसत्तमम् 015c
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया 016a
प्रहर्षमतुलं लेभे विस्मयं च परं ययौ 016c
उपस्थितं महाराज पूजयामास भारत 017a
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा 017c
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः 018a
नाम सङ्कीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे 018c
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत 019a
तव सन्दर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः 019c
एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः 020a
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर 020c
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् 021a
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् 021c
पुलस्त्य उवाच 022
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च 022a
सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः 022c
यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ 023a
तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि 023c
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते 024a
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ 024c
भीष्म उवाच 025
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते 025a
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् 025c
यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर 026a
वक्ष्यामि हृत्स्थं सन्देहं तन्मे त्वं वक्तुमर्हसि 026c
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः 027a
तमहं श्रोतुमिच्छामि पृथक्सङ्कीर्तितं त्वया 027c
प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम 028a
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन 028c
पुलस्त्य उवाच 029
हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम् 029a
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् 029c
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् 030a
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते 030c
प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः 031a
अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते 031c
अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः 032a
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते 032c
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः 033a
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते 033c
ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम् 034a
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः 034c
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते 035a
बहूपकरणा यज्ञा नानासम्भारविस्तराः 035c
प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् 036a
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः 036c
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर 037a
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर 037c
ऋषीणां परमं गुह्यमिदं भरतसत्तम 038a
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते 038c
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च 039a
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते 039c
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः 040a
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् 040c
नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् 041a
पुष्करं नाम विख्यातं महाभागः समाविशेत् 041c
दश कोटिसहस्राणि तीर्थानां वै महीपते 042a
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन 042c
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः 043a
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभो 043c
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा 044a
दिव्ययोगा महाराज पुण्येन महतान्विताः 044c
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः 045a
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते 045c
तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः 046a
उवास परमप्रीतो देवदानवसम्मतः 046c
पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः 047a
सिद्धिं समभिसम्प्राप्ताः पुण्येन महतान्विताः 047c
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः 048a
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 048c
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः 049a
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते 049c
शाकमूलफलैर्वापि येन वर्तयते स्वयम् 050a
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः 050c
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः 050e
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम 051a
न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः 051c
कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम् 052a
फलं तत्राक्षयं तस्य वर्धते भरतर्षभ 052c
सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः 053a
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत 053c
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् 053e
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा 054a
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति 054c
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः 055a
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते 055c
उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः 056a
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति 056c
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते 057a
कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् 057c
दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः 058a
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् 058c
उष्य द्वादशरात्रं तु नियतो नियताशनः 059a
प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् 059c
जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् 060a
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति 060c
तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः 061a
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् 061c
जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम् 062a
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते 062c
अगस्त्यसर आसाद्य पितृदेवार्चने रतः 063a
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् 063c
शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् 064a
कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् 064c
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ 065a
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते 065c
अर्चयित्वा पितॄन्देवान्नियतो नियताशनः 066a
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते 066c
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् 067a
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै 067c
महाकालं ततो गच्छेन्नियतो नियताशनः 068a
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् 068c
ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः 069a
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् 069c
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् 070a
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् 070c
नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम् 071a
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् 071c
दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः 072a
अग्निष्टोममवाप्नोति विमानं चाधिरोहति 072c
चर्मण्वतीं समासाद्य नियतो नियताशनः 073a
रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् 073c
ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् 074a
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर 074c
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः 075a
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् 075c
पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः 076a
कपिलानां नरव्याघ्र शतस्य फलमश्नुते 076c
ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् 077a
यत्र सन्निहितो नित्यं स्वयमेव हुताशनः 077c
देवतानां मुखं वीर अनलोऽनिलसारथिः 077e
तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः 078a
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः 078c
ततो गत्वा सरस्वत्याः सागरस्य च सङ्गमे 079a
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते 079c
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ 079e
त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः 080a
प्रभासते यथा सोमो अश्वमेधं च विन्दति 080c
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम 081a
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर 081c
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् 082a
ततो द्वारवतीं गच्छेन्नियतो नियताशनः 082c
पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् 082e
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः 083a
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिन्दम 083c
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन 084a
महादेवस्य सान्निध्यं तत्रैव भरतर्षभ 084c
सागरस्य च सिन्धोश्च सङ्गमं प्राप्य भारत 085a
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः 085c
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ 086a
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा 086c
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर 087a
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 087c
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ 088a
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् 088c
दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् 088e
यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् 089a
तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् 089c
जन्मप्रभृति पापानि कृतानि नुदते नरः 089e
दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता 090a
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् 090c
जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना 091a
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् 091c
ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् 092a
गमनादेव तस्यां हि हयमेधमवाप्नुयात् 092c
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः 093a
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते 093c
तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ 094a
तत्र स्नात्वा च पीत्वा च वसूनां सम्मतो भवेत् 094c
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् 095a
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम् 095c
ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः 096a
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः 096c
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् 097a
तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् 097c
रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् 098a
तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा 098c
अथ पञ्चनदं गत्वा नियतो नियताशनः 099a
पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः 099c
ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् 100a
तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम 100c
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः 101a
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् 101c
गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् 102a
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् 102c
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् 103a
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः 103c
तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् 104a
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् 104c
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् 105a
पश्चिमायां तु सन्ध्यायामुपस्पृश्य यथाविधि 105c
चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत् 106a
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः 106c
गवां शतसहस्रेण राजसूयशतेन च 107a
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः 107c
ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत् 108a
अभिगम्य महादेवमश्वमेधफलं लभेत् 108c
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः 109a
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् 109c
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् 110a
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ 110c
त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् 111a
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् 111c
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ 112a
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् 112c
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् 113a
तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत 113c
यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् 114a
पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः 114c
अर्धयोजनविस्तारां पञ्चयोजनमायताम् 115a
एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् 115c
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् 116a
यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः 116c
दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः 116e
गमनादेव राजेन्द्र दीर्घसत्रमरिन्दम 117a
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 117c
ततो विनशनं गच्छेन्नियतो नियताशनः 118a
गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती 118c
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते 118e
स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् 119a
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् 119c
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् 120a
शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् 120c
शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत 120e
सरस्वत्यां महाराज अनु संवत्सरं हि ते 121a
स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा 121c
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा 122a
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ 122c
कुमारकोटिमासाद्य नियतः कुरुनन्दन 123a
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 123c
गवामयमवाप्नोति कुलं चैव समुद्धरेत् 123e
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः 124a
पुरा यत्र महाराज ऋषिकोटिः समाहिता 124c
प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया 124e
अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम् 125a
एवं सम्प्रस्थिता राजन्नृषयः किल भारत 125c
ततो योगेष्वरेणापि योगमास्थाय भूपते 126a
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् 126c
सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता 127a
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् 127c
तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् 128a
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् 128c
अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति 128e
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः 129a
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् 129c
ततो गच्छेत राजेन्द्र सङ्गमं लोकविश्रुतम् 130a
सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् 130c
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः 131a
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् 131c
तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् 132a
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति 132c
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप 133a
सत्रावसानमासाद्य गोसहस्रफलं लभेत् 133c