जनमेजय उवाच 001
भगवन्काम्यकात्पार्थे गते मे प्रपितामहे 001a
पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् 001c
स हि तेषां महेष्वासो गतिरासीदनीकजित् 002a
आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे 002c
तेनेन्द्रसमवीर्येण सङ्ग्रामेष्वनिवर्तिना 003a
विनाभूता वने वीराः कथमासन्पितामहाः 003c
वैशम्पायन उवाच 004
गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि 004a
बभूवुः कौरवेयास्ते दुःखशोकपरायणाः 004c
आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः 005a
अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः 005c
वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा 006a
कुबेरेण यथा हीनं वनं चैत्ररथं तथा 006c
तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय 007a
मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा 007c
ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः 008a
निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् 008c
नित्यं हि पुरुषव्याघ्रा वन्याहारमरिन्दमाः 009a
विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् 009c
एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः 010a
अहृष्टमनसः सर्वे गते राजन्धनञ्जये 010c
अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् 011a
स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् 011c
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना 012a
तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे 012c
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् 012e
बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् 013a
न तथा रमणीयं मे तमृते सव्यसाचिनम् 013c
नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् 014a
तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे 014c
यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः 015a
न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम् 015c
तथा लालप्यमानां तां निशम्य परवीरहा 016a
भीमसेनो महाराज द्रौपदीमिदमब्रवीत् 016c
मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे 017a
तन्मे प्रीणाति हृदयममृतप्राशनोपमम् 017c
यस्य दीर्घौ समौ पीनौ भुजौ परिघसन्निभौ 018a
मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ 018c
निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ 019a
तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम् 019c
यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा 020a
सुराणामपि यत्तानां पृतनासु न बिभ्यति 020c
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः 021a
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् 021c
तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् 022a
शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् 022c
नकुल उवाच 023
य उदीचीं दिशं गत्वा जित्वा युधि महाबलान् 023a
गन्धर्वमुख्याञ्शतशो हयाल्ँलेभे स वासविः 023c
राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः 024a
प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ 024c
तमृते भीमधन्वानं भीमादवरजं वने 025a
कामये काम्यके वासं नेदानीममरोपमम् 025c
सहदेव उवाच 026
यो धनानि च कन्याश्च युधि जित्वा महारथान् 026a
आजहार पुरा राज्ञे राजसूये महाक्रतौ 026c
यः समेतान्मृधे जित्वा यादवानमितद्युतिः 027a
सुभद्रामाजहारैको वासुदेवस्य सम्मते 027c
तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने 028a
हृदयं मे महाराज न शाम्यति कदाचन 028c
वनादस्माद्विवासं तु रोचयेऽहमरिन्दम 029a
न हि नस्तमृते वीरं रमणीयमिदं वनम् 029c