बृहदश्व उवाच 001
प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महोत्सवे 001a
महत्या सेनया राजा दमयन्तीमुपानयत् 001c
दमयन्तीमपि पिता सत्कृत्य परवीरहा 002a
प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः 002c
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः 003a
वर्तयामास मुदितो देवराडिव नन्दने 003c
तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु 004a
पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः 004c
ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः 005a
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् 005c
दुःखमेतादृशं प्राप्तो नलः परपुरञ्जयः 006a
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ 006c
एकाकिनैव सुमहन्नलेन पृथिवीपते 007a
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः 007c
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव 008a
रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन् 008c
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः 009a
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना 009c
इतिहासमिमं चापि कलिनाशनमुच्यते 010a
शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते 010c
अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा 011a
तस्याये च व्यये चैव समाश्वसिहि मा शुचः 011c
ये चेदं कथयिष्यन्ति नलस्य चरितं महत् 012a
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति 012c
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति 012e
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् 013a
पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् 013c
अरोगः प्रीतिमांश्चैव भविष्यति न संशयः 013e
भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः 014a
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव 014c
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम 015a
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते 015c
वैशम्पायन उवाच 016
ततो हृष्टमना राजा बृहदश्वमुवाच ह 016a
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः 016c
ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने 017a
दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः 017c
बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् 018a
वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् 018c
ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतद्भ्यस्ततस्ततः 019a
तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः 019c
इति पार्थो महाबाहुर्दुरापं तप आस्थितः 020a
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति 020c
यथा धनञ्जयः पार्थस्तपस्वी नियतव्रतः 021a
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव 021c
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने 022a
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् 022c
दह्यमानेन तु हृदा शरणार्थी महावने 023a
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः 023c