बृहदश्व उवाच 001
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः 001a
पुरादल्पपरीवारो जगाम निषधान्प्रति 001c
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः 002a
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः 002c
स कम्पयन्निव महीं त्वरमाणो महीपतिः 003a
प्रविवेशातिसंरब्धस्तरसैव महामनाः 003c
ततः पुष्करमासाद्य वीरसेनसुतो नलः 004a
उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् 004c
दमयन्ती च यच्चान्यन्मया वसु समर्जितम् 005a
एष वै मम सन्न्यासस्तव राज्यं तु पुष्कर 005c
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः 006a
एकपाणेन भद्रं ते प्राणयोश्च पणावहे 006c
जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु 007a
प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते 007c
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् 008a
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप 008c
वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा 009a
येन तेनाप्युपायेन वृद्धानामिति शासनम् 009c
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर 010a
कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः 010c
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव 011a
ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् 011c
दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध 012a
दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् 012c
दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण 012e
धनेनानेन वैदर्भी जितेन समलङ्कृता 013a
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः 013c
नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध 014a
देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः 014c
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् 015a
कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि 015c
श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः 016a
इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः 016c
स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः 017a
पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि 017c
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च 018a
एकपाणेन भद्रं ते नलेन स पराजितः 018c
सरत्नकोशनिचयः प्राणेन पणितोऽपि च 018e
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् 019a
मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् 019c
वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् 020a
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः 020c
न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा 021a
कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे 021c
नाहं परकृतं दोषं त्वय्याधास्ये कथञ्चन 021e
यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते 022a
तथैव च मम प्रीतिस्त्वयि वीर न संशयः 022c
सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति 023a
पुष्कर त्वं हि मे भ्राता सञ्जीवस्व शतं समाः 023c
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः 024a
स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः 024c
सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् 025a
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः 025c
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी 026a
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव 026c
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः 027a
प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः 027c
महत्या सेनया राजन्विनीतैः परिचारकैः 028a
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ 028c
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् 029a
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् 029c
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः 029e