बृहदश्व उवाच 001
अथ तां व्युषितो रात्रिं नलो राजा स्वलङ्कृतः 001a
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् 001c
ततोऽभिवादयामास प्रयतः श्वशुरं नलः 002a
तस्यानु दमयन्ती च ववन्दे पितरं शुभा 002c
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा 003a
यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः 003c
नलेन सहितां तत्र दमयन्तीं पतिव्रताम् 003e
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि 004a
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् 004c
ततो बभूव नगरे सुमहान्हर्षनिस्वनः 005a
जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथागतम् 005c
अशोभयच्च नगरं पताकाध्वजमालिनम् 006a
सिक्तसम्मृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा 006c
द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः 007a
अर्चितानि च सर्वाणि देवतायतनानि च 007c
ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम् 008a
दमयन्त्या समायुक्तं जहृषे च नराधिपः 008c
तमानाय्य नलो राजा क्षमयामास पार्थिवम् 009a
स च तं क्षमयामास हेतुभिर्बुद्धिसम्मतः 009c
स सत्कृतो महीपालो नैषधं विस्मयान्वितः 010a
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत 010c
कच्चित्तु नापराधं ते कृतवानस्मि नैषध 011a
अज्ञातवासं वसतो मद्गृहे निषधाधिप 011c
यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित् 012a
मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि 012c
नल उवाच 013
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव 013a
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव 013c
पूर्वं ह्यसि सखा मेऽसि सम्बन्धी च नराधिप 014a
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि 014c
सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि 015a
न तथा स्वगृहे राजन्यथा तव गृहे सदा 015c
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति 016a
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव 016c
बृहदश्व उवाच 017
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः 017a
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा 017c
ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः 018a
सूतमन्यमुपादाय ययौ स्वपुरमेव हि 018c
ऋतुपर्णे प्रतिगते नलो राजा विशां पते 019a
नगरे कुण्डिने कालं नातिदीर्घमिवावसत् 019c