दमयन्त्युवाच 001
न मामर्हसि कल्याण पापेन परिशङ्कितुम् 001a
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप 001c
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः 002a
वाक्यानि मम गाथाभिर्गायमाना दिशो दश 002c
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव 003a
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने 003c
तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते 004a
उपायोऽयं मया दृष्टो नैषधानयने तव 004c
त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते 005a
समर्थो योजनशतं गन्तुमश्वैर्नराधिप 005c
तथा चेमौ महीपाल भजेऽहं चरणौ तव 006a
यथा नासत्कृतं किञ्चिन्मनसापि चराम्यहम् 006c
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः 007a
एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् 007c
तथा चरति तिग्मांशुः परेण भुवनं सदा 008a
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् 008c
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् 009a
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् 009c
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै 010a
विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् 010c
एवमुक्ते ततो वायुरन्तरिक्षादभाषत 011a
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते 011c
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः 012a
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् 012c
उपायो विहितश्चायं त्वदर्थमतुलोऽनया 013a
न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह 013c
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते 014a
नात्र शङ्का त्वया कार्या सङ्गच्छ सह भार्यया 014c
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह 015a
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः 015c
तदद्भुततमं दृष्ट्वा नलो राजाथ भारत 016a
दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिन्दमः 016c
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः 017a
संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् 017c
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा 018a
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता 018c
भैमीमपि नलो राजा भ्राजमानो यथा पुरा 019a
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत 019c
ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना 020a
परीता तेन दुःखेन निशश्वासायतेक्षणा 020c
तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता 021a
सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता 021c
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च 022a
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप 022c
ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् 023a
दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् 023c
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् 024a
वने विचरितं सर्वमूषतुर्मुदितौ नृप 024c
स चतुर्थे ततो वर्षे सङ्गम्य सह भार्यया 025a
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् 025c
दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् 026a
अर्धसञ्जातसस्येव तोयं प्राप्य वसुन्धरा 026c
सैवं समेत्य व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा 027a
रराज भैमी समवाप्तकामा शीतांशुना रात्रिरिवोदितेन 027c