बृहदश्व उवाच 001
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः 001a
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् 001c
दमयन्ती ततो भूयः प्रेषयामास केशिनीम् 002a
मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका 002c
परीक्षितो मे बहुशो बाहुको नलशङ्कया 003a
रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् 003c
स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि 004a
विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम् 004c
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् 005a
दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः 005c
सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ 006a
नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः 006c
तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा 007a
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी 007c
ततः काषायवसना जटिला मलपङ्किनी 008a
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् 008c
दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक 009a
सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् 009c
अनागसं प्रियां भार्यां विजने श्रममोहिताम् 010a
अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् 010c
किं नु तस्य मया कार्यमपराद्धं महीपतेः 011a
यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् 011c
साक्षाद्देवानपाहाय वृतो यः स मया पुरा 012a
अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् 012c
अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् 013a
भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् 013c
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिन्दम 014a
शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु 014c
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् 015a
परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् 015c
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् 016a
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् 016c
त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा 017a
वनस्थया दुःखितया शोचन्त्या मां विवाससम् 017c
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः 018a
त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः 018c
मम च व्यवसायेन तपसा चैव निर्जितः 019a
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे 019c
विमुच्य मां गतः पापः स ततोऽहमिहागतः 020a
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् 020c
कथं नु नारी भर्तारमनुरक्तमनुव्रतम् 021a
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् 021c
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् 022a
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति 022c
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः 023a
श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः 023c
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् 024a
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् 024c