बृहदश्व उवाच 001
दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा 001a
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् 001c
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके 002a
आब्रुवाणा समीपस्था चरितान्यस्य लक्षय 002c
यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि 003a
तत्र सञ्चेष्टमानस्य संलक्ष्यं ते विचेष्टितम् 003c
न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि 004a
याचते न जलं देयं सम्यगत्वरमाणया 004c
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय 005a
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम 005c
दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी 006a
निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् 006c
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् 007a
निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् 007c
केशिन्युवाच 008
दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् 008a
दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः 008c
ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित् 009a
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् 009c
सङ्कटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् 009e
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः 010a
प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् 010c
तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः 011a
स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा 011c
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः 012a
तृणमुष्टिं समादाय आविध्यैनं समादधत् 012c
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः 013a
तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता 013c
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया 014a
यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे 014c
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् 015a
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् 015c
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः 016a
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ 016c
भूय एव सुगन्धीनि हृषितानि भवन्ति च 017a
एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता 017c
बृहदश्व उवाच 018
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् 018a
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् 018c
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् 019a
केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् 019c
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् 020a
महानसाच्छृतं मांसं समादायैहि भामिनि 020c
सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च 021a
अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी 021c
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन 021e
सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा 022a
प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता 022c
वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः 023a
मिथुनं प्रेषयामास केशिन्या सह भारत 023c
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः 024a
अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् 024c
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ 025a
भृशं दुःखपरीतात्मा सस्वरं प्ररुदोद ह 025c
नैषधो दर्शयित्वा तु विकारमसकृत्तदा 026a
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् 026c
इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः 027a
ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् 027c
बहुशः सम्पतन्तीं त्वां जनः शङ्केत दोषतः 028a
वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते 028c