दमयन्त्युवाच 001
गच्छ केशिनि जानीहि क एष रथवाहकः 001a
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः 001c
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता 002a
पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते 002c
अत्र मे महती शङ्का भवेदेष नलो नृपः 003a
तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः 003c
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा 004a
प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते 004c
बृहदश्व उवाच 005
एवं समाहिता गत्वा दूती बाहुकमब्रवीत् 005a
दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत 005c
केशिन्युवाच 006
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् 006a
दमयन्त्या वचः साधु निबोध पुरुषर्षभ 006c
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः 007a
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति 007c
बाहुक उवाच 008
श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना 008a
द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि 008c
श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः 009a
हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः 009c
केशिन्युवाच 010
अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः 010a
त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् 010c
बाहुक उवाच 011
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः 011a
स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः 011c
अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः 012a
ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् 012c
केशिन्युवाच 013
अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः 013a
कथञ्चित्त्वयि वैतेन कथितं स्यात्तु बाहुक 013c
बाहुक उवाच 014
इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः 014a
गतस्ततो यथाकामं नैष जानाति नैषधम् 014c
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि 015a
गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः 015c
आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा 016a
न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् 016c
केशिन्युवाच 017
योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा 017a
इमानि नारीवाक्यानि कथयानः पुनः पुनः 017c
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम 018a
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय 018c
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी 019a
दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता 019c
तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव 020a
प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च 020c
तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते 021a
तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता 021c
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल 022a
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति 022c
बृहदश्व उवाच 023
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन 023a
हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने 023c
स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः 024a
बाष्पसन्दिग्धया वाचा पुनरेवेदमब्रवीत् 024c
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः 025a
आत्मानमात्मना सत्यो जितस्वर्गा न संशयः 025c
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन 026a
प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः 026c
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः 027a
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति 027c
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् 028a
भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् 028c
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः 029a
न बाष्पमशकत्सोढुं प्ररुरोद च भारत 029c
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् 030a
तत्सर्वं कथितं चैव विकारं चैव तस्य तम् 030c