बृहदश्व उवाच 001
ततो विदर्भान्सम्प्राप्तं सायाह्ने सत्यविक्रमम् 001a
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् 001c
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् 002a
नादयन्रथघोषेण सर्वाः सोपदिशो दश 002c
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः 003a
श्रुत्वा च समहृष्यन्त पुरेव नलसन्निधौ 003c
दमयन्ती च शुश्राव रथघोषं नलस्य तम् 004a
यथा मेघस्य नदतो गम्भीरं जलदागमे 004c
नलेन सङ्गृहीतेषु पुरेव नलवाजिषु 005a
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः 005c
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः 006a
हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः 006c
ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा 007a
प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह 007c
दमयन्त्युवाच 008
यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् 008a
मम ह्लादयते चेतो नल एष महीपतिः 008c
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि 009a
असङ्ख्येयगुणं वीरं विनशिष्याम्यसंशयम् 009c
यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् 010a
प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् 010c
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः 011a
अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् 011c
यदि मां सिंहविक्रान्तो मत्तवारणवारणः 012a
नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् 012c
न स्मराम्यनृतं किञ्चिन्न स्मराम्यनुपाकृतम् 013a
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः 013c
प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः 014a
रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः 014c
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् 015a
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् 015c
बृहदश्व उवाच 016
एवं विलपमाना सा नष्टसञ्ज्ञेव भारत 016a
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया 016c
ततो मध्यमकक्षायां ददर्श रथमास्थितम् 017a
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् 017c
ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् 018a
हयांस्तानवमुच्याथ स्थापयामासतू रथम् 018c
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः 019a
उपतस्थे महाराज भीमं भीमपराक्रमम् 019c
तं भीमः प्रतिजग्राह पूजया परया ततः 020a
अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति 020c
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत 021a
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् 021c
ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः 022a
राजानं राजपुत्रं वा न स्म पश्यति कञ्चन 022c
नैव स्वयंवरकथां न च विप्रसमागमम् 022e
ततो विगणयन्राजा मनसा कोसलाधिपः 023a
आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः 023c
राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् 024a
अधिकं योजनशतं तस्यागमनकारणम् 024c
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् 025a
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् 025c
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् 026a
विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः 026c
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः 027a
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् 027c
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे 028a
बाहुको रथमास्थाय रथशालामुपागमत् 028c
स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः 029a
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् 029c
दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् 030a
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् 030c
चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः 031a
नलस्येव महानासीन्न च पश्यामि नैषधम् 031c
वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता 032a
तेनास्य रथनिर्घोषो नलस्येव महानभूत् 032c
आहो स्विदृतुपर्णोऽपि यथा राजा नलस्तथा 033a
ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते 033c
एवं वितर्कयित्वा तु दमयन्ती विशां पते 034a
दूतीं प्रस्थापयामास नैषधान्वेषणे नृप 034c