बृहदश्व उवाच 001
स नदीः पर्वतांश्चैव वनानि च सरांसि च 001a
अचिरेणातिचक्राम खेचरः खे चरन्निव 001c
तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः 002a
उत्तरीयमथापश्यद्भ्रष्टं परपुरञ्जयः 002c
ततः स त्वरमाणस्तु पटे निपतिते तदा 003a
ग्रहीष्यामीति तं राजा नलमाह महामनाः 003c
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् 004a
वार्ष्णेयो यावदेतं मे पटमानयतामिति 004c
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव 005a
योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः 005c
एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः 006a
आससाद वने राजन्फलवन्तं बिभीतकम् 006c
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत 007a
ममापि सूत पश्य त्वं सङ्ख्याने परमं बलम् 007c
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन 008a
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् 008c
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक 009a
पतितानि च यान्यत्र तत्रैकमधिकं शतम् 009c
एकपत्राधिकं पत्रं फलमेकं च बाहुक 009e
पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः 010a
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः 010c
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च 010e
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् 011a
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन 011c
अथ ते गणिते राजन्विद्यते न परोक्षता 012a
प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् 012c
अहं हि नाभिजानामि भवेदेवं न वेति च 013a
सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप 013c
मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् 013e
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् 014a
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः 014c
प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् 015a
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः 015c
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन 016a
त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक 016c
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद 017a
शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि 017c
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक 018a
विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे 018c
अथाब्रवीद्बाहुकस्तं सङ्ख्यायेमं बिभीतकम् 019a
ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम 019c
अकाम इव तं राजा गणयस्वेत्युवाच ह 020a
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् 020c
ततः स विस्मयाविष्टो राजानमिदमब्रवीत् 021a
गणयित्वा यथोक्तानि तावन्त्येव फलानि च 021c
अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् 022a
श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप 022c
तमुवाच ततो राजा त्वरितो गमने तदा 023a
विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम् 023c
बाहुकस्तमुवाचाथ देहि विद्यामिमां मम 024a
मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ 024c
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् 025a
हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः 025c
यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम् 026a
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक 026c
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै 026e
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः 027a
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् 027c
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः 028a
स तेन कर्शितो राजा दीर्घकालमनात्मवान् 028c
ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः 029a
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः 029c
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः 030a
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् 030c
इन्द्रसेनस्य जननी कुपिता माशपत्पुरा 031a
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः 031c
अवसं त्वयि राजेन्द्र सुदुःखमपराजित 032a
विषेण नागराजस्य दह्यमानो दिवानिशम् 032c
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः 033a
मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति 033c
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः 034a
ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् 034c
कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै 034e
ततो गतज्वरो राजा नैषधः परवीरहा 035a
सम्प्रनष्टे कलौ राजन्सङ्ख्यायाथ फलान्युत 035c
मुदा परमया युक्तस्तेजसा च परेण ह 036a
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः 036c
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् 036e
हयोत्तमानुत्पततो द्विजानिव पुनः पुनः 037a
नलः सञ्चोदयामास प्रहृष्टेनान्तरात्मना 037c
विदर्भाभिमुखो राजा प्रययौ स महामनाः 038a
नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् 038c
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते 039a
विमुक्तः कलिना राजन्रूपमात्रवियोजितः 039c