बृहदश्व उवाच 001
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः 001a
सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत 001c
विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम् 002a
एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक 002c
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह 003a
व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः 003c
दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता 004a
अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् 004c
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी 005a
मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना 005c
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः 006a
स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा 006c
मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा 006e
न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः 007a
यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् 007c
ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् 007e
इति निश्चित्य मनसा बाहुको दीनमानसः 008a
कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् 008c
प्रतिजानामि ते सत्यं गमिष्यसि नराधिप 009a
एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप 009c
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः 010a
अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया 010c
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः 011a
अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् 011c
तेजोबलसमायुक्तान्कुलशीलसमन्वितान् 012a
वर्जिताल्ँलक्षणैर्हीनैः पृथुप्रोथान्महाहनून् 012c
शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः 012e
दृष्ट्वा तानब्रवीद्राजा किञ्चित्कोपसमन्वितः 013a
किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् 013c
कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम 014a
महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः 014c
बाहुक उवाच 015
एते हया गमिष्यन्ति विदर्भान्नात्र संशयः 015a
अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते 015c
ऋतुपर्ण उवाच 016
त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक 016a
यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय 016c
बृहदश्व उवाच 017
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् 017a
योजयामास कुशलो जवयुक्तान्रथे नरः 017c
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः 018a
अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः 018c
ततो नरवरः श्रीमान्नलो राजा विशां पते 019a
सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् 019c
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः 020a
सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् 020c
ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः 021a
समुत्पेतुरिवाकाशं रथिनं मोहयन्निव 021c
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः 022a
अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ 022c
रथघोषं तु तं श्रुत्वा हयसङ्ग्रहणं च तत् 023a
वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् 023c
किं नु स्यान्मातलिरयं देवराजस्य सारथिः 024a
तथा हि लक्षणं वीरे बाहुके दृश्यते महत् 024c
शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् 025a
मानुषं समनुप्राप्तो वपुः परमशोभनम् 025c
उताहो स्विद्भवेद्राजा नलः परपुरञ्जयः 026a
सोऽयं नृपतिरायात इत्येवं समचिन्तयत् 026c
अथ वा यां नलो वेद विद्यां तामेव बाहुकः 027a
तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च 027c
अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च 028a
नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति 028c
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् 029a
दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः 029c
भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति 030a
प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः 030c
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः 031a
नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः 031c
एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् 032a
हृदयेन महाराज पुण्यश्लोकस्य सारथिः 032c
ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् 033a
चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः 033c
बलं वीर्यं तथोत्साहं हयसङ्ग्रहणं च तत् 034a
परं यत्नं च सम्प्रेक्ष्य परां मुदमवाप ह 034c