बृहदश्व उवाच 001
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः 001a
प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् 001c
नैषधं मृगयानेन दमयन्ति दिवानिशम् 002a
अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः 002c
श्रावितश्च मया वाक्यं त्वदीयं स महाजने 003a
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि 003c
तच्छ्रुत्वा नाब्रवीत्किञ्चिदृतुपर्णो नराधिपः 004a
न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत् 004c
अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् 005a
ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः 005c
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः 006a
शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने 006c
स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः 007a
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत 007c
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः 008a
आत्मानमात्मना सत्यो जितस्वर्गा न संशयः 008c
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन 008e
विषमस्थेन मूढेन परिभ्रष्टसुखेन च 009a
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति 009c
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः 010a
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति 010c
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् 011a
भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति 011c
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः 012a
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय 012c
एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते 013a
दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत 013c
अयमर्थो न संवेद्यो भीमे मातः कथञ्चन 014a
त्वत्सन्निधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् 014c
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् 015a
तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि 015c
यथा चाहं समानीता सुदेवेनाशु बान्धवान् 016a
तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् 016c
समानेतुं नलं मातरयोध्यां नगरीमितः 016e
विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् 017a
अर्चयामास वैदर्भी धनेनातीव भामिनी 017c
नले चेहागते विप्र भूयो दास्यामि ते वसु 018a
त्वया हि मे बहु कृतं यथा नान्यः करिष्यति 018c
यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम 018e
एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः 019a
गृहानुपययौ चापि कृतार्थः स महामनाः 019c
ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर 020a
अब्रवीत्सन्निधौ मातुर्दुःखशोकसमन्विता 020c
गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् 021a
ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती 021c
आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् 021e
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः 022a
यथा च गणितः कालः श्वोभूते स भविष्यति 022c
यदि सम्भावनीयं ते गच्छ शीघ्रमरिन्दम 023a
सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति 023c
न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा 023e
एवं तया यथोक्तं वै गत्वा राजानमब्रवीत् 024a
ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा 024c