दमयन्त्युवाच 001
मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते 001a
नरवीरस्य वै तस्य नलस्यानयने यत 001c
बृहदश्व उवाच 002
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता 002a
बाष्पेण पिहिता राजन्नोत्तरं किञ्चिदब्रवीत् 002c
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा 003a
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह 003c
ततो भीमं महाराज भार्या वचनमब्रवीत् 004a
दमयन्ती तव सुता भर्तारमनुशोचति 004c
अपकृष्य च लज्जां मां स्वयमुक्तवती नृप 005a
प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने 005c
तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः 006a
प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने 006c
ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः 007a
दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् 007c
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः 008a
ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः 008c
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम 009a
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय 009c
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी 010a
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता 010c
तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव 011a
प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च 011c
एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि 012a
वायुना धूयमानो हि वनं दहति पावकः 012c
भर्तव्या रक्षणीया च पत्नी हि पतिना सदा 013a
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव 013c
ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा 014a
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् 014c
स कुरुष्व महेष्वास दयां मयि नरर्षभ 015a
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् 015c
एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन 016a
स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते 016c
यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः 017a
तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः 017c
यथा च वो न जानीयाच्चरतो भीमशासनात् 018a
पुनरागमनं चैव तथा कार्यमतन्द्रितैः 018c
यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् 019a
यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् 019c
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम् 020a
नलं मृगयितुं राजंस्तथा व्यसनिनं तदा 020c
ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् 021a
अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः 021c
तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते 022a
श्रावयाञ्चक्रिरे विप्रा दमयन्त्या यथेरितम् 022c