सुदेव उवाच 001
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः 001a
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता 001c
राजा तु नैषधो नाम वीरसेनसुतो नलः 002a
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः 002c
स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः 003a
दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् 003c
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् 004a
सेयमासादिता बाला तव पुत्रनिवेशने 004c
अस्या रूपेण सदृशी मानुषी नेह विद्यते 005a
अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः 005c
श्यामायाः पद्मसङ्काशो लक्षितोऽन्तर्हितो मया 005e
मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः 006a
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः 006c
प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते 007a
न चास्या नश्यते रूपं वपुर्मलसमाचितम् 007c
असंस्कृतमपि व्यक्तं भाति काञ्चनसन्निभम् 007e
अनेन वपुषा बाला पिप्लुनानेन चैव ह 008a
लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा 008c
बृहदश्व उवाच 009
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते 009a
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् 009c
स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत 010a
दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः 010c
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत 011a
रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः 011c
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् 011e
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता 012a
अहं च तव माता च राजन्यस्य महात्मनः 012c
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने 012e
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः 013a
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे 013c
यथैव ते पितुर्गेहं तथेदमपि भामिनि 014a
यथैव हि ममैश्वर्यं दमयन्ति तथा तव 014c
तां प्रहृष्टेन मनसा दमयन्ती विशां पते 015a
अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् 015c
अज्ञायमानापि सती सुखमस्म्युषितेह वै 016a
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया 016c
सुखात्सुखतरो वासो भविष्यति न संशयः 017a
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि 017c
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ 018a
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ 018c
यदि चापि प्रियं किञ्चिन्मयि कर्तुमिहेच्छसि 019a
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश 019c
बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप 020a
गुप्तां बलेन महता पुत्रस्यानुमते ततः 020c
प्रस्थापयद्राजमाता श्रीमता नरवाहिना 021a
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् 021c
ततः सा नचिरादेव विदर्भानगमच्छुभा 022a
तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् 022c
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ 023a
मातरं पितरं चैव सर्वं चैव सखीजनम् 023c
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी 024a
विधिना परेण कल्याणी दमयन्ती विशां पते 024c
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः 025a
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च 025c
सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी 026a
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् 026c