बृहदश्व उवाच 001
हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते 001a
द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया 001c
सन्दिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् 002a
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् 002c
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे 003a
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति 003c
अग्रहारं च दास्यामि ग्रामं नगरसम्मितम् 003e
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा 004a
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् 004c
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम् 005a
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया 005c
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः 006a
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि 006c
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् 006e
मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् 007a
पिनद्धां धूमजालेन प्रभामिव विभावसोः 007c
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् 008a
तर्कयामास भैमीति कारणैरुपपादयन् 008c
सुदेव उवाच 009
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना 009a
कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् 009c
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् 010a
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः 010c
चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव 011a
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव 011c
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् 012a
मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् 012c
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् 013a
पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव 013c
विध्वस्तपर्णकमलां वित्रासितविहङ्गमाम् 014a
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् 014c
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् 015a
दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् 015c
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् 016a
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् 016c
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च 017a
देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया 017c
भर्ता नाम परं नार्या भूषणं भूषणैर्विना 018a
एषा विरहिता तेन शोभनापि न शोभते 018c
दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः 019a
धारयत्यात्मनो देहं न शोकेनावसीदति 019c
इमामसितकेशान्तां शतपत्रायतेक्षणाम् 020a
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः 020c
कदा नु खलु दुःखस्य पारं यास्यति वै शुभा 021a
भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा 021c
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति 022a
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् 022c
तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् 023a
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा 023c
युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया 024a
समाश्वासयितुं भार्यां पतिदर्शनलालसाम् 024c
अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् 025a
अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् 025c
बृहदश्व उवाच 026
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् 026a
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् 026c
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा 027a
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः 027c
कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते 028a
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते 028c
त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते 028e
अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर 029a
पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् 029c
रुरोद च भृशं राजन्वैदर्भी शोककर्शिता 030a
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् 030c
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् 031a
सुदेवेन सहैकान्ते कथयन्तीं च भारत 031c
जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम् 032a
ब्राह्मणेन समागम्य तां वेद यदि मन्यसे 032c
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा 033a
जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् 033c
ततः सुदेवमानाय्य राजमाता विशां पते 034a
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी 034c
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना 035a
त्वया च विदिता विप्र कथमेवङ्गता सती 035c
एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः 036a
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् 036c
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः 037a
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् 037c