बृहदश्व उवाच 001
तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः 001a
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि 001c
स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् 002a
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः 002c
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च 003a
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः 003c
यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम् 004a
सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् 004c
ऋतुपर्ण उवाच 005
वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि 005a
शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः 005c
स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम 006a
भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः 006c
त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ 007a
एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक 007c
बृहदश्व उवाच 008
एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः 008a
ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः 008c
स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन् 009a
सायं सायं सदा चेमं श्लोकमेकं जगाद ह 009c
क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी 010a
स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति 010c
एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् 011a
कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक 011c
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् 012a
आसीद्बहुमता नारी तस्या दृढतरं च सः 012c
स वै केनचिदर्थेन तया मन्दो व्ययुज्यत 013a
विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः 013c
दह्यमानः स शोकेन दिवारात्रमतन्द्रितः 014a
निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति 014c
स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किञ्चन 015a
वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् 015c
सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने 016a
त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति 016c
एका बालानभिज्ञा च मार्गाणामतथोचिता 017a
क्षुत्पिपासापरीता च दुष्करं यदि जीवति 017c
श्वापदाचरिते नित्यं वने महति दारुणे 018a
त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष 018c
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् 019a
अज्ञातवासमवसद्राज्ञस्तस्य निवेशने 019c