बृहदश्व उवाच 001
उत्सृज्य दमयन्तीं तु नलो राजा विशां पते 001a
ददर्श दावं दह्यन्तं महान्तं गहने वने 001c
तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित् 002a
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् 002c
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् 003a
ददर्श नागराजानं शयानं कुण्डलीकृतम् 003c
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा 004a
उवाच विद्धि मां राजन्नागं कर्कोटकं नृप 004c
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः 005a
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप 005c
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् 006a
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् 006c
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः 007a
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् 007c
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः 008a
तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् 008c
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना 009a
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् 009c
पदानि गणयन्गच्छ स्वानि नैषध कानिचित् 010a
तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् 010c
ततः सङ्ख्यातुमारब्धमदशद्दशमे पदे 011a
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत 011c
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः 012a
स्वरूपधारिणं नागं ददर्श च महीपतिः 012c
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् 013a
मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति 013c
यत्कृते चासि विकृतो दुःखेन महता नल 014a
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति 014c
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति 015a
तावत्त्वयि महाराज दुःखं वै स निवत्स्यति 015c
अनागा येन निकृतस्त्वमनर्हो जनाधिप 016a
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता 016c
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा 017a
ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप 017c
राजन्विषनिमित्ता च न ते पीडा भविष्यति 018a
सङ्ग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि 018c
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् 019a
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् 019c
अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर 019e
स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै 020a
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति 020c
भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा 021a
समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः 021c
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते 021e
स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप 022a
संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः 022c
अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे 023a
इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा 023c
एवं नलं समादिश्य वासो दत्त्वा च कौरव 024a
नागराजस्ततो राजंस्तत्रैवान्तरधीयत 024c