बृहदश्व उवाच 001
सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा 001a
अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा 001c
अथ काले बहुतिथे वने महति दारुणे 002a
तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् 002c
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् 003a
बहुमूलफलोपेतं नानापक्षिगणैर्वृतम् 003c
तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् 004a
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः 004c
सम्मते सार्थवाहस्य विविशुर्वनमुत्तमम् 005a
उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् 005c
अथार्धरात्रसमये निःशब्दस्तिमिते तदा 006a
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् 006c
पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् 006e
मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् 007a
सुप्तं ममर्द सहसा चेष्टमानं महीतले 007c
हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः 008a
वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात् 008c
केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः 008e
गोखरोष्ट्राश्वबहुलं पदातिजनसङ्कुलम् 009a
भयार्तं धावमानं तत्परस्परहतं तदा 009c
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले 010a
वृक्षेष्वासज्य सम्भग्नाः पतिता विषमेषु च 010c
तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् 010e
अथापरेद्युः सम्प्राप्ते हतशिष्टा जनास्तदा 011a
वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् 011c
भ्रातरं पितरं पुत्रं सखायं च जनाधिप 011e
अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् 012a
योऽपि मे निर्जनेऽरण्ये सम्प्राप्तोऽयं जनार्णवः 012c
हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु 012e
प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम् 013a
नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् 013c
यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता 014a
न ह्यदैवकृतं किञ्चिन्नराणामिह विद्यते 014c
न च मे बालभावेऽपि किञ्चिद्व्यपकृतं कृतम् 015a
कर्मणा मनसा वाचा यदिदं दुःखमागतम् 015c
मन्ये स्वयंवरकृते लोकपालाः समागताः 016a
प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः 016c
नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् 016e
एवमादीनि दुःखानि सा विलप्य वराङ्गना 017a
हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः 017c
अगच्छद्राजशार्दूल दुःखशोकपरायणा 017e
गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत् 018a
सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः 018c
वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् 018e
तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम् 019a
उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः 019c
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा 020a
अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात् 020c
सा तैः परिवृतागच्छत्समीपं राजवेश्मनः 021a
तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् 021c
सा जनं वारयित्वा तं प्रासादतलमुत्तमम् 022a
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत 022c
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः 023a
भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा 023c
न हि ते मानुषं रूपं भूषणैरपि वर्जितम् 024a
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे 024c
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् 025a
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् 025c
सैरन्ध्रीं जातिसम्पन्नां भुजिष्यां कामवासिनीम् 026a
फलमूलाशनामेकां यत्रसायम्प्रतिश्रयाम् 026c
असङ्ख्येयगुणो भर्ता मां च नित्यमनुव्रतः 027a
भर्तारमपि तं वीरं छायेवानपगा सदा 027c
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने 028a
द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेयिवान् 028c
तमेकवसनं वीरमुन्मत्तमिव विह्वलम् 029a
आश्वासयन्ती भर्तारमहमन्वगमं वनम् 029c
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे 030a
क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत् 030c
तमेकवसनं नग्नमुन्मत्तं गतचेतसम् 031a
अनुव्रजन्ती बहुला न स्वपामि निशाः सदा 031c
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् 032a
वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् 032c
तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः 033a
न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् 033c
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु 034a
राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम् 034c
वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते 035a
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम 035c
अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः 036a
इहैव वसती भद्रे भर्तारमुपलप्स्यसे 036c
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् 037a
समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि 037c
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् 038a
न चाहं पुरुषानन्यान्सम्भाषेयं कथञ्चन 038c
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् 039a
भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् 039c
यद्येवमिह कर्तव्यं वसाम्यहमसंशयम् 040a
अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् 040c
तां प्रहृष्टेन मनसा राजमातेदमब्रवीत् 041a
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् 041c
एवमुक्त्वा ततो भैमीं राजमाता विशां पते 042a
उवाचेदं दुहितरं सुनन्दां नाम भारत 042c
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् 043a
एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् 043c