बृहदश्व उवाच 001
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा 001a
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् 001c
सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम् 002a
नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् 002c
शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः 003a
अर्जुनारिष्टसञ्छन्नं चन्दनैश्च सशाल्मलैः 003c
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् 004a
काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् 004c
बदरीबिल्वसञ्छन्नं न्यग्रोधैश्च समाकुलम् 005a
प्रियालतालखर्जूरहरीतकबिभीतकैः 005c
नानाधातुशतैर्नद्धान्विविधानपि चाचलान् 006a
निकुञ्जान्पक्षिसङ्घुष्टान्दरीश्चाद्भुतदर्शनाः 006c
नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् 006e
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् 007a
पल्वलानि तडागानि गिरिकूटानि सर्वशः 007c
सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् 007e
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी 008a
महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् 008c
तेजसा यशसा स्थित्या श्रिया च परया युता 009a
वैदर्भी विचरत्येका नलमन्वेषती तदा 009c
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् 010a
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता 010c
विदर्भतनया राजन्विललाप सुदुःखिता 011a
भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता 011c
दमयन्त्युवाच 012
सिंहोरस्क महाबाहो निषधानां जनाधिप 012a
क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने 012c
अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः 013a
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे 013c
यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते 014a
कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ 014c
यथोक्तं विहगैर्हंसैः समीपे तव भूमिप 015a
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि 015c
चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः 016a
स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः 016c
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर 017a
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः 017c
हा वीर ननु नामाहमिष्टा किल तवानघ 018a
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे 018c
भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः 019a
अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि 019c
न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा 020a
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप 020c
उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप 021a
ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे 021c
कृशां दीनां विवर्णां च मलिनां वसुधाधिप 022a
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् 022c
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन 023a
न मानयसि मानार्ह रुदतीमरिकर्शन 023c
महाराज महारण्ये मामिहैकाकिनीं सतीम् 024a
आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे 024c
कुलशीलोपसम्पन्नं चारुसर्वाङ्गशोभनम् 025a
नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम 025c
वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते 025e
शयानमुपविष्टं वा स्थितं वा निषधाधिप 026a
प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन 026c
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता 027a
कच्चिद्दृष्टस्त्वयारण्ये सङ्गत्येह नलो नृपः 027c
को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम् 028a
अभिरूपं महात्मानं परव्यूहविनाशनम् 028c
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् 029a
अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् 029c
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः 030a
शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता 030c
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः 031a
विदर्भराजतनयां दमयन्तीति विद्धि माम् 031c
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः 032a
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् 032c
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः 032e
अथ वारण्यनृपते नलं यदि न शंससि 033a
मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् 033c
श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम् 034a
यात्येतां मृष्टसलिलामापगां सागरङ्गमाम् 034c
इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः 035a
विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः 035c
नानाधातुसमाकीर्णं विविधोपलभूषितम् 036a
अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् 036c
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् 037a
पतत्रिभिर्बहुविधैः समन्तादनुनादितम् 037c
किंशुकाशोकबकुलपुन्नागैरुपशोभितम् 038a
सरिद्भिः सविहङ्गाभिः शिखरैश्चोपशोभितम् 038c
गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति 038e
भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत 039a
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर 039c
प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् 040a
राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम् 040c
राजा विदर्भाधिपतिः पिता मम महारथः 041a
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता 041c
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् 042a
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः 042c
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः 043a
शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः 043c
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः 044a
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् 044c
निषधेषु महाशैल श्वशुरो मे नृपोत्तमः 045a
सुगृहीतनामा विख्यातो वीरसेन इति स्म ह 045c
तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः 046a
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह 046c
नलो नामारिदमनः पुण्यश्लोक इति श्रुतः 047a
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् 047c
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता 048a
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् 048c
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् 049a
अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् 049c
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः 050a
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः 050c
गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः 051a
विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः 051c
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः 051e
किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम् 052a
गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् 052c
वीर विक्रान्त धर्मज्ञ सत्यसन्ध महीपते 053a
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना 053c
कदा नु स्निग्धगम्भीरां जीमूतस्वनसन्निभाम् 054a
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् 054c
वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः 055a
आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम् 055c
इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी 056a
दमयन्ती ततो भूयो जगाम दिशमुत्तराम् 056c
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना 057a
तापसारण्यमतुलं दिव्यकाननदर्शनम् 057c
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् 058a
नियतैः संयताहारैर्दमशौचसमन्वितैः 058c
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च 059a
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः 059c
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः 060a
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् 060c
सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् 061a
शाखामृगगणैश्चैव तापसैश्च समन्वितम् 061c
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना 062a
वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी 062c
सा विवेशाश्रमपदं वीरसेनसुतप्रिया 063a
योषिद्रत्नं महाभागा दमयन्ती मनस्विनी 063c
साभिवाद्य तपोवृद्धान्विनयावनता स्थिता 064a
स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा 064c
पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः 065a
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे 065c
तानुवाच वरारोहा कच्चिद्भगवतामिह 066a
तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः 066c
कुशलं वो महाभागाः स्वधर्मचरणेषु च 066e
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी 067a
ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि 067c
दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह 068a
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः 068c
अस्यारण्यस्य महती देवता वा महीभृतः 069a
अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते 069c
साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता 070a
न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम् 070c
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः 071a
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः 071c
विदर्भेषु महीपालो भीमो नाम महाद्युतिः 072a
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः 072c
निषधाधिपतिर्धीमान्नलो नाम महायशाः 073a
वीरः सङ्ग्रामजिद्विद्वान्मम भर्ता विशां पतिः 073c
देवताभ्यर्चनपरो द्विजातिजनवत्सलः 074a
गोप्ता निषधवंशस्य महाभागो महाद्युतिः 074c
सत्यवाग्धर्मवित्प्राज्ञः सत्यसन्धोऽरिमर्दनः 075a
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरञ्जयः 075c
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः 076a
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा 076c
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः 077a
सपत्नानां मृधे हन्ता रविसोमसमप्रभः 077c
स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः 078a
आहूय पृथिवीपालः सत्यधर्मपरायणः 078c
देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च 078e
तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै 079a
दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् 079c
सा वनानि गिरींश्चैव सरांसि सरितस्तथा 080a
पल्वलानि च रम्याणि तथारण्यानि सर्वशः 080c
अन्वेषमाणा भर्तारं नलं रणविशारदम् 081a
महात्मानं कृतास्त्रं च विचरामीह दुःखिता 081c
कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः 082a
भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः 082c
यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम् 083a
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् 083c
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् 084a
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् 084c
को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् 085a
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता 085c
एवं विलपतीमेकामरण्ये भीमनन्दिनीम् 086a
दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः 086c
उदर्कस्तव कल्याणि कल्याणो भविता शुभे 087a
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् 087c
निषधानामधिपतिं नलं रिपुनिघातिनम् 088a
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् 088c
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् 089a
तदेव नगरश्रेष्ठं प्रशासन्तमरिन्दमम् 089c
द्विषतां भयकर्तारं सुहृदां शोकनाशनम् 090a
पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् 090c
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् 091a
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा 091c
सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा 092a
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा 092c
किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत् 093a
क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम् 093c
क्व सा पुण्यजला रम्या नानाद्विजनिषेविता 094a
नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः 094c
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता 095a
भर्तृशोकपरा दीना विवर्णवदनाभवत् 095c
सा गत्वाथापरां भूमिं बाष्पसन्दिग्धया गिरा 096a
विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः 096c
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा 097a
पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम् 097c
अहो बतायमगमः श्रीमानस्मिन्वनान्तरे 098a
आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव 098c
विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन 099a
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् 099c
नलं नामारिदमनं दमयन्त्याः प्रियं पतिम् 100a
निषधानामधिपतिं दृष्टवानसि मे प्रियम् 100c
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् 101a
व्यसनेनार्दितं वीरमरण्यमिदमागतम् 101c
यथा विशोका गच्छेयमशोकनग तत्कुरु 102a
सत्यनामा भवाशोक मम शोकविनाशनात् 102c
एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह 103a
जगाम दारुणतरं देशं भैमी वराङ्गना 103c
सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा 104a
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः 104c
कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान् 105a
ददर्श सा भीमसुता पतिमन्वेषती तदा 105c
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता 106a
ददर्शाथ महासार्थं हस्त्यश्वरथसङ्कुलम् 106c
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् 107a
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् 107c
प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् 108a
कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् 108c
सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी 109a
उपसर्प्य वरारोहा जनमध्यं विवेश ह 109c
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता 110a
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा 110c
तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः 111a
केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः 111c
प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे 112a
चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत 112c
कासि कस्यासि कल्याणि किं वा मृगयसे वने 113a
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी 113c
वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः 114a
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः 114c
यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना 115a
सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते 115c
यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् 116a
तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः 116c
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा 117a
प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता 117c
सार्थवाहं च सार्थं च जना ये चात्र केचन 117e
यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः 118a
मानुषीं मां विजानीत मनुजाधिपतेः सुताम् 118c
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् 118e
विदर्भराण्मम पिता भर्ता राजा च नैषधः 119a
नलो नाम महाभागस्तं मार्गाम्यपराजितम् 119c
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् 120a
नलं पार्थिवशार्दूलममित्रगणसूदनम् 120c
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः 121a
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः 121c
अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते 122a
मनुष्यं नलनामानं न पश्यामि यशस्विनि 122c
कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि 123a
पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते 123c
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु 123e
साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः 124a
क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ 124c
सार्थवाह उवाच 125
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः 125a
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे 125c