बृहदश्व उवाच 001
अपक्रान्ते नले राजन्दमयन्ती गतक्लमा 001a
अबुध्यत वरारोहा सन्त्रस्ता विजने वने 001c
सापश्यमाना भर्तारं दुःखशोकसमन्विता 002a
प्राक्रोशदुच्चैः सन्त्रस्ता महाराजेति नैषधम् 002c
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् 003a
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने 003c
ननु नाम महाराज धर्मज्ञः सत्यवागसि 004a
कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः 004c
कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् 005a
विशेषतोऽनपकृते परेणापकृते सति 005c
शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर 006a
यास्त्वया लोकपालानां सन्निधौ कथिताः पुरा 006c
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ 007a
भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर 007c
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध 008a
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे 008c
नृशंसं बत राजेन्द्र यन्मामेवङ्गतामिह 009a
विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव 009c
न शोचाम्यहमात्मानं न चान्यदपि किञ्चन 010a
कथं नु भवितास्येक इति त्वां नृप शोचिमि 010c
कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः 011a
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि 011c
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना 012a
इतश्चेतश्च रुदती पर्यधावत दुःखिता 012c
मुहुरुत्पतते बाला मुहुः पतति विह्वला 013a
मुहुरालीयते भीता मुहुः क्रोशति रोदिति 013c
सा तीव्रशोकसन्तप्ता मुहुर्निःश्वस्य विह्वला 014a
उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता 014c
यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः 015a
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् 015c
अपापचेतसं पापो य एवं कृतवान्नलम् 016a
तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् 016c
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः 017a
अन्वेषति स्म भर्तारं वने श्वापदसेविते 017c
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः 018a
हा हा राजन्निति मुहुरितश्चेतश्च धावति 018c
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् 019a
करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः 019c
सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् 020a
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः 020c
सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता 021a
नात्मानं शोचति तथा यथा शोचति नैषधम् 021c
हा नाथ मामिह वने ग्रस्यमानामनाथवत् 022a
ग्राहेणानेन विपिने किमर्थं नाभिधावसि 022c
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध 023a
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च 023c
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध 024a
कः श्रमं राजशार्दूल नाशयिष्यति मानद 024c
तामकस्मान्मृगव्याधो विचरन्गहने वने 025a
आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह 025c
तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् 026a
त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः 026c
मुखतः पातयामास शस्त्रेण निशितेन ह 027a
निर्विचेष्टं भुजङ्गं तं विशस्य मृगजीवनः 027c
मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च 028a
समाश्वास्य कृताहारामथ पप्रच्छ भारत 028c
कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् 029a
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि 029c
दमयन्ती तथा तेन पृच्छ्यमाना विशां पते 030a
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत 030c
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् 031a
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् 031c
अरालपक्ष्मनयनां तथा मधुरभाषिणीम् 032a
लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् 032c
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपुर्वया 033a
सान्त्वयामास कामार्तस्तदबुध्यत भामिनी 033c
दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता 034a
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना 034c
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः 035a
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव 035c
दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता 036a
अतीतवाक्पथे काले शशापैनं रुषा किल 036c
यथाहं नैषधादन्यं मनसापि न चिन्तये 037a
तथायं पततां क्षुद्रः परासुर्मृगजीवनः 037c
उक्तमात्रे तु वचने तया स मृगजीवनः 038a
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः 038c