नल उवाच 001
यथा राज्यं पितुस्ते तत्तथा मम न संशयः 001a
न तु तत्र गमिष्यामि विषमस्थः कथञ्चन 001c
कथं समृद्धो गत्वाहं तव हर्षविवर्धनः 002a
परिद्यूनो गमिष्यामि तव शोकविवर्धनः 002c
बृहदश्व उवाच 003
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः 003a
सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम् 003c
तावेकवस्त्रसंवीतावटमानावितस्ततः 004a
क्षुत्पिपासापरिश्रान्तौ सभां काञ्चिदुपेयतुः 004c
तां सभामुपसम्प्राप्य तदा स निषधाधिपः 005a
वैदर्भ्या सहितो राजा निषसाद महीतले 005c
स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः 006a
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले 006c
दमयन्त्यपि कल्याणी निद्रयापहृता ततः 007a
सहसा दुःखमासाद्य सुकुमारी तपस्विनी 007c
सुप्तायां दमयन्त्यां तु नलो राजा विशां पते 008a
शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा 008c
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः 009a
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् 009c
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः 010a
किं नु मे मरणं श्रेयः परित्यागो जनस्य वा 010c
मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते 011a
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति 011c
मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा 012a
उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् 012c
स विनिश्चित्य बहुधा विचार्य च पुनः पुनः 013a
उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः 013c
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् 014a
चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् 014c
कथं वासो विकर्तेयं न च बुध्येत मे प्रिया 015a
चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा 015c
परिधावन्नथ नल इतश्चेतश्च भारत 016a
आससाद सभोद्देशे विकोशं खड्गमुत्तमम् 016c
तेनार्धं वाससश्छित्त्वा निवस्य च परन्तपः 017a
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः 017c
ततो निबद्धहृदयः पुनरागम्य तां सभाम् 018a
दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः 018c
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् 019a
सेयमद्य सभामध्ये शेते भूमावनाथवत् 019c
इयं वस्त्रावकर्तेन संवीता चारुहासिनी 020a
उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति 020c
कथमेका सती भैमी मया विरहिता शुभा 021a
चरिष्यति वने घोरे मृगव्यालनिषेविते 021c
गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः 022a
आकृष्यमाणः कलिना सौहृदेनापकृष्यते 022c
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा 023a
दोलेव मुहुरायाति याति चैव सभां मुहुः 023c
सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः 024a
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु 024c
नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः 025a
जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः 025c