बृहदश्व उवाच 001
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः 001a
पुष्करेण हृतं राज्यं यच्चान्यद्वसु किञ्चन 001c
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् 002a
द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव 002c
शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया 003a
दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे 003c
पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना 004a
व्यदीर्यतेव हृदयं न चैनं किञ्चिदब्रवीत् 004c
ततः पुष्करमालोक्य नलः परममन्युमान् 005a
उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः 005c
एकवासा असंवीतः सुहृच्छोकविवर्धनः 006a
निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् 006c
दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात् 007a
स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् 007c
पुष्करस्तु महाराज घोषयामास वै पुरे 008a
नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम 008c
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च 009a
पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर 009c
स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः 010a
त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् 010c
क्षुधा सम्पीड्यमानस्तु नलो बहुतिथेऽहनि 011a
अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् 011c
स चिन्तयामास तदा निषधाधिपतिर्बली 012a
अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति 012c
ततस्तानन्तरीयेण वाससा समवास्तृणोत् 013a
तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा 013c
उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् 014a
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् 014c
वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः 015a
आगता न हि नः प्रीतिः सवाससि गते त्वयि 015c
तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् 016a
पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् 016c
येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते 017a
प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः 017c
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः 018a
त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे 018c
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः 019a
भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः 019c
एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् 020a
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् 020c
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा 021a
आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः 021c
एष पन्था विदर्भाणामयं गच्छति कोसलान् 022a
अतः परं च देशोऽयं दक्षिणे दक्षिणापथः 022c
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता 023a
उवाच दमयन्ती तं नैषधं करुणं वचः 023c
उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः 024a
तव पार्थिव सङ्कल्पं चिन्तयन्त्याः पुनः पुनः 024c
हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् 025a
कथमुत्सृज्य गच्छेयमहं त्वां विजने वने 025c
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् 026a
वने घोरे महाराज नाशयिष्यामि ते क्लमम् 026c
न च भार्यासमं किञ्चिद्विद्यते भिषजां मतम् 027a
औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते 027c
नल उवाच 028
एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे 028a
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् 028c
न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे 029a
त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते 029c
दमयन्त्युवाच 030
यदि मां त्वं महाराज न विहातुमिहेच्छसि 030a
तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते 030c
अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि 031a
चेतसा त्वपकृष्टेन मां त्यजेथा महापते 031c
पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम 032a
अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ 032c
यदि चायमभिप्रायस्तव राजन्व्रजेदिति 033a
सहितावेव गच्छावो विदर्भान्यदि मन्यसे 033c
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद 034a
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे 034c