बृहदश्व उवाच 001
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् 001a
उन्मत्तवदनुन्मत्ता देवने गतचेतसम् 001c
भयशोकसमाविष्टा राजन्भीमसुता ततः 002a
चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति 002c
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् 003a
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् 003c
बृहत्सेने व्रजामात्यानानाय्य नलशासनात् 004a
आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु 004c
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् 005a
अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् 005c
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः 006a
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत 006c
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा 007a
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह 007c
निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् 008a
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह 008c
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् 009a
सूतमानय कल्याणि महत्कार्यमुपस्थितम् 009c
बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् 010a
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः 010c
वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा 011a
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता 011c
जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि 012a
तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि 012c
यथा यथा हि नृपतिः पुष्करेणेह जीयते 013a
तथा तथास्य द्यूते वै रागो भूयोऽभिवर्धते 013c
यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः 014a
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते 014c
सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च 015a
नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः 015c
यत्र मे वचनं राजा नाभिनन्दति मोहितः 016a
शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः 016c
न हि मे शुध्यते भावः कदाचिद्विनशेदिति 016e
नलस्य दयितानश्वान्योजयित्वा महाजवान् 017a
इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि 017c
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा 018a
अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा 018c
दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः 019a
न्यवेदयदशेषेण नलामात्येषु मुख्यशः 019c
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते 020a
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना 020c
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् 021a
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् 021c
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् 022a
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा 022c
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः 023a
भृतिं चोपययौ तस्य सारथ्येन महीपते 023c