बृहदश्व उवाच 001
एवं स समयं कृत्वा द्वापरेण कलिः सह 001a
आजगाम ततस्तत्र यत्र राजा स नैषधः 001c
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् 002a
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् 002c
कृत्वा मूत्रमुपस्पृश्य सन्ध्यामास्ते स्म नैषधः 003a
अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् 003c
स समाविश्य तु नलं समीपं पुष्करस्य ह 004a
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै 004c
अक्षद्यूते नलं जेता भवान्हि सहितो मया 005a
निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम् 005c
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् 006a
कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् 006c
आसाद्य तु नलं वीरं पुष्करः परवीरहा 007a
दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः 007c
न चक्षमे ततो राजा समाह्वानं महामनाः 008a
वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत 008c
हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् 009a
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा 009c
तमक्षमदसम्मत्तं सुहृदां न तु कश्चन 010a
निवारणेऽभवच्छक्तो दीव्यमानमचेतसम् 010c
ततः पौरजनः सर्वो मन्त्रिभिः सह भारत 011a
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् 011c
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् 012a
एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् 012c
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः 013a
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः 013c
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता 014a
उवाच नैषधं भैमी शोकोपहतचेतना 014c
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः 015a
मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः 015c
तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत 015e
तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् 016a
आविष्टः कलिना राजा नाभ्यभाषत किञ्चन 016c
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः 017a
नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् 017c
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च 018a
युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत 018c