बृहदश्व उवाच 001
वृते तु नैषधे भैम्या लोकपाला महौजसः 001a
यान्तो ददृशुरायान्तं द्वापरं कलिना सह 001c
अथाब्रवीत्कलिं शक्रः सम्प्रेक्ष्य बलवृत्रहा 002a
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि 002c
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् 003a
गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् 003c
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः 004a
वृतस्तया नलो राजा पतिरस्मत्समीपतः 004c
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः 005a
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा 005c
देवानां मानुषं मध्ये यत्सा पतिमविन्दत 006a
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् 006c
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः 007a
अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः 007c
कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम् 008a
यो वेद धर्मानखिलान्यथावच्चरितव्रतः 008c
यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः 009a
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे 009c
आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना 010a
एवङ्गुणं नलं यो वै कामयेच्छपितुं कले 010c
कृच्छ्रे स नरके मज्जेदगाधे विपुलेऽप्लवे 011a
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः 011c
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् 012a
संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर 012c
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते 013a
त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि 013c