बृहदश्व उवाच 001
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा 001a
आजुहाव महीपालान्भीमो राजा स्वयंवरे 001c
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः 002a
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः 002c
कनकस्तम्भरुचिरं तोरणेन विराजितम् 003a
विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् 003c
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः 004a
सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः 004c
तां राजसमितिं पूर्णां नागैर्भोगवतीमिव 005a
सम्पूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव 005c
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः 006a
आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः 006c
सुकेशान्तानि चारूणि सुनासानि शुभानि च 007a
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि 007c
दमयन्ती ततो रङ्गं प्रविवेश शुभानना 008a
मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च 008c
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् 009a
तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् 009c
ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत 010a
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव 010c
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् 011a
सन्देहादथ वैदर्भी नाभ्यजानान्नलं नृपम् 011c
यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् 011e
सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी 012a
कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् 012c
एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता 013a
श्रुतानि देवलिङ्गानि चिन्तयामास भारत 013c
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे 014a
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये 014c
सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः 015a
शरणं प्रति देवानां प्राप्तकालममन्यत 015c
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा 016a
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् 016c
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः 017a
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे 017c
वाचा च मनसा चैव यथा नाभिचराम्यहम् 018a
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे 018c
यथा देवैः स मे भर्ता विहितो निषधाधिपः 019a
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे 019c
स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः 020a
यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् 020c
निशम्य दमयन्त्यास्तत्करुणं परिदेवितम् 021a
निश्चयं परमं तथ्यमनुरागं च नैषधे 021c
मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत 022a
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे 022c
सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् 023a
हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् 023c
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः 024a
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः 024c
सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत 025a
नैषधं वरयामास भैमी धर्मेण भारत 025c
विलज्जमाना वस्त्रान्ते जग्राहायतलोचना 026a
स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम् 026c
वरयामास चैवैनं पतित्वे वरवर्णिनी 026e
ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः 027a
देवैर्महर्षिभिश्चैव साधु साध्विति भारत 027c
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् 027e
वृते तु नैषधे भैम्या लोकपाला महौजसः 028a
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः 028c
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् 029a
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः 029c
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः 030a
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः 030c
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् 031a
अपाम्पतिरपां भावं यत्र वाञ्छति नैषधः 031c
स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः 032a
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः 032c
पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः 033a
दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् 033c
अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः 034a
रेमे सह तया राजा शच्येव बलवृत्रहा 034c
अतीव मुदितो राजा भ्राजमानोंऽशुमानिव 035a
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् 035c
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः 036a
अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः 036c
पुनश्च रमणीयेषु वनेषूपवनेषु च 037a
दमयन्त्या सह नलो विजहारामरोपमः 037c
एवं स यजमानश्च विहरंश्च नराधिपः 038a
ररक्ष वसुसम्पूर्णां वसुधां वसुधाधिपः 038c