बृहदश्व उवाच 001
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् 001a
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते 001c
अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन 002a
सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर 002c
हंसानां वचनं यत्तत्तन्मां दहति पार्थिव 003a
त्वत्कृते हि मया वीर राजानः सन्निपातिताः 003c
यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद 004a
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् 004c
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह 005a
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि 005c
येषामहं लोककृतामीश्वराणां महात्मनाम् 006a
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् 006c
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति 007a
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् 007c
ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता 008a
प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत् 008c
अस्त्युपायो मया दृष्टो निरपायो नरेश्वर 009a
येन दोषो न भविता तव राजन्कथञ्चन 009c
त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः 010a
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः 010c
ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर 011a
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति 011c
एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते 012a
आजगाम पुनस्तत्र यत्र देवाः समागताः 012c
तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः 013a
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत् 013c
देवा ऊचुः 014
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता 014a
किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ 014c
नल उवाच 015
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् 015a
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् 015c
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः 016a
ऋते तां पार्थिवसुतां भवतामेव तेजसा 016c
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः 017a
विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः 017c
वर्ण्यमानेषु च मया भवत्सु रुचिरानना 018a
मामेव गतसङ्कल्पा वृणीते सुरसत्तमाः 018c
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः 019a
त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः 019c
तेषामहं सन्निधौ त्वां वरयिष्ये नरोत्तम 020a
एवं तव महाबाहो दोषो न भवितेति ह 020c
एतावदेव विबुधा यथावृत्तमुदाहृतम् 021a
मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः 021c