बृहदश्व उवाच 001
तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत 001a
अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः 001c
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः 002a
किं च तत्र मया कार्यं कथयध्वं यथातथम् 002c
एवमुक्ते नैषधेन मघवान्प्रत्यभाषत 003a
अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् 003c
अहमिन्द्रोऽयमग्निश्च तथैवायमपाम्पतिः 004a
शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव 004c
स वै त्वमागतानस्मान्दमयन्त्यै निवेदय 005a
लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः 005c
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः 006a
तेषामन्यतमं देवं पतित्वे वरयस्व ह 006c
एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् 007a
एकार्थसमवेतं मां न प्रेषयितुमर्हथ 007c
देवा ऊचुः 008
करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध 008a
न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् 008c
बृहदश्व उवाच 009
एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् 009a
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे 009c
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत 010a
जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् 010c
ददर्श तत्र वैदर्भीं सखीगणसमावृताम् 011a
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् 011c
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् 012a
आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा 012c
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् 013a
सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् 013c
ततस्ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः 014a
आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः 014c
प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः 015a
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् 015c
अहो रूपमहो कान्तिरहो धैर्यं महात्मनः 016a
कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति 016c
न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन 017a
तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः 017c
अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी 018a
दमयन्ती नलं वीरमभ्यभाषत विस्मिता 018c
कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन 019a
प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ 019c
कथमागमनं चेह कथं चासि न लक्षितः 020a
सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः 020c
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह 021a
नलं मां विद्धि कल्याणि देवदूतमिहागतम् 021c
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः 022a
तेषामन्यतमं देवं पतिं वरय शोभने 022c
तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः 023a
प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् 023c
एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः 024a
एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि 024c