बृहदश्व उवाच 001
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत 001a
तदाप्रभृति नस्वस्था नलं प्रति बभूव सा 001c
ततश्चिन्तापरा दीना विवर्णवदना कृशा 002a
बभूव दमयन्ती तु निःश्वासपरमा तदा 002c
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना 003a
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् 003c
न नक्तं न दिवा शेते हा हेति वदती मुहुः 004a
तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः 004c
ततो विदर्भपतये दमयन्त्याः सखीगणः 005a
न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर 005c
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् 006a
चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति 006c
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् 007a
अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम् 007c
स सन्निपातयामास महीपालान्विशां पते 008a
अनुभूयतामयं वीराः स्वयंवर इति प्रभो 008c
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् 009a
अभिजग्मुस्तदा भीमं राजानो भीमशासनात् 009c
हस्त्यश्वरथघोषेण नादयन्तो वसुन्धराम् 010a
विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलङ्कृतैः 010c
एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ 011a
अटमानौ महात्मानाविन्द्रलोकमितो गतौ 011c
नारदः पर्वतश्चैव महात्मानौ महाव्रतौ 012a
देवराजस्य भवनं विविशाते सुपूजितौ 012c
तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम् 013a
पप्रच्छानामयं चापि तयोः सर्वगतं विभुः 013c
नारद उवाच 014
आवयोः कुशलं देव सर्वत्रगतमीश्वर 014a
लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो 014c
बृहदश्व उवाच 015
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा 015a
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः 015c
शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः 016a
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् 016c
क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् 017a
आगच्छतो महीपालानतिथीन्दयितान्मम 017c
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत 018a
शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः 018c
विदर्भराजदुहिता दमयन्तीति विश्रुता 019a
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः 019c
तस्याः स्वयंवरः शक्र भविता नचिरादिव 020a
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः 020c
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः 021a
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन 021c
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः 022a
आजग्मुर्देवराजस्य समीपममरोत्तमाः 022c
ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत् 023a
श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत 023c
ततः सर्वे महाराज सगणाः सहवाहनाः 024a
विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः 024c
नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् 025a
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः 025c
अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् 026a
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसम्पदा 026c
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् 027a
तस्थुर्विगतसङ्कल्पा विस्मिता रूपसम्पदा 027c
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः 028a
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् 028c
भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् 029a
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम 029c