बृहदश्व उवाच 001
आसीद्राजा नलो नाम वीरसेनसुतो बली 001a
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः 001c
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा 002a
उपर्युपरि सर्वेषामादित्य इव तेजसा 002c
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः 003a
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः 003c
ईप्सितो वरनारीणामुदारः संयतेन्द्रियः 004a
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् 004c
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः 005a
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः 005c
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः 006a
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत 006c
तं स भीमः प्रजाकामस्तोषयामास धर्मवित् 007a
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् 007c
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ 008a
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः 008c
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् 009a
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् 009c
दमयन्ती तु रूपेण तेजसा यशसा श्रिया 010a
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा 010c
अथ तां वयसि प्राप्ते दासीनां समलङ्कृतम् 011a
शतं सखीनां च तथा पर्युपास्ते शचीमिव 011c
तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता 012a
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा 012c
अतीव रूपसम्पन्ना श्रीरिवायतलोचना 012e
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् 013a
मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता 013c
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी 013e
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि 014a
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् 014c
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् 015a
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः 015c
तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान् 016a
अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः 016c
अशक्नुवन्नलः कामं तदा धारयितुं हृदा 017a
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः 017c
स ददर्श तदा हंसाञ्जातरूपपरिच्छदान् 018a
वने विचरतां तेषामेकं जग्राह पक्षिणम् 018c
ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् 019a
न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम् 019c
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध 020a
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् 020c
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः 021a
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः 021c
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके 022a
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् 022c
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता 023a
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे 023c
अथ हंसा विससृपुः सर्वतः प्रमदावने 024a
एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् 024c
दमयन्ती तु यं हंसं समुपाधावदन्तिके 025a
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् 025c
दमयन्ति नलो नाम निषधेषु महीपतिः 026a
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः 026c
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि 027a
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे 027c
वयं हि देवगन्धर्वमनुष्योरगराक्षसान् 028a
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः 028c
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः 029a
विशिष्टाया विशिष्टेन सङ्गमो गुणवान्भवेत् 029c
एवमुक्ता तु हंसेन दमयन्ती विशां पते 030a
अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद 030c
तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते 031a
पुनरागम्य निषधान्नले सर्वं न्यवेदयत् 031c