जनमेजय उवाच 001
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि 001a
युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः 001c
वैशम्पायन उवाच 002
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि 002a
न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः 002c
ततः कदाचिदेकान्ते विविक्त इव शाद्वले 003a
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया 003c
धनञ्जयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः 003e
तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे 004a
धनञ्जयवियोगाच्च राज्यनाशाच्च दुःखिताः 004c
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत 005a
निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः 005c
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः 005e
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् 006a
सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् 006c
योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् 007a
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् 007c
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः 008a
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् 008c
यस्य प्रभावान्न मया सभामध्ये धनुष्मतः 009a
नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः 009c
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः 010a
सहामहे भवन्मूलं वासुदेवेन पालिताः 010c
वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् 011a
स्वबाहुविजितां कृत्स्नां प्रशासेम वसुन्धराम् 011c
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः 012a
अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः 012c
क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि 013a
न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः 013c
राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः 013e
स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः 014a
प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि 014c
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् 015a
व्यूढानीकान्महाराज जवेनैव महाहवे 015c
धार्तराष्ट्रानमुं लोकं गमयामि विशां पते 015e
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् 016a
दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते 016c
मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः 017a
एवं कृते न ते दोषो भविष्यति विशां पते 017c
यज्ञैश्च विविधैस्तात कृतं पापमरिन्दम 018a
अवधूय महाराज गच्छेम स्वर्गमुत्तमम् 018c
एवमेतद्भवेद्राजन्यदि राजा न बालिशः 019a
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः 019c
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः 020a
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते 020c
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते 021a
अहोरात्रं महाराज तुल्यं संवत्सरेण हि 021c
तथैव वेदवचनं श्रूयते नित्यदा विभो 022a
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः 022c
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत 023a
त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः 023c
कालो दुर्योधनं हन्तुं सानुबन्धमरिन्दम 024a
एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः 024c
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः 025a
उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम् 025c
असंशयं महाबाहो हनिष्यसि सुयोधनम् 026a
वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना 026c
यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो 027a
अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते 027c
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् 028a
हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् 028c
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे 029a
आजगाम महाभागो बृहदश्वो महानृषिः 029c
तमभिप्रेक्ष्य धर्मात्मा सम्प्राप्तं धर्मचारिणम् 030a
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् 030c
आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः 031a
अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत 031c
अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् 032a
आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः 032c
अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः 033a
भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी 033c
अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि 034a
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् 034c
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः 034e
बृहदश्व उवाच 035
यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् 035a
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव 035c
अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ 036a
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते 036c
वैशम्पायन उवाच 037
अथैनमब्रवीद्राजा ब्रवीतु भगवानिति 037a
इमामवस्थां सम्प्राप्तं श्रोतुमिच्छामि पार्थिवम् 037c
बृहदश्व उवाच 038
शृणु राजन्नवहितः सह भ्रातृभिरच्युत 038a
यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते 038c
निषधेषु महीपालो वीरसेन इति स्म ह 039a
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् 039c
स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् 040a
वनवासमदुःखार्हो भार्यया न्यवसत्सह 040c
न तस्याश्वो न च रथो न भ्राता न च बान्धवाः 041a
वने निवसतो राजञ्शिष्यन्ते स्म कदाचन 041c
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसम्मितैः 042a
ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् 042c
युधिष्ठिर उवाच 043
विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः 043a
चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि 043c