वैशम्पायन उवाच 001
सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः 001a
अब्रवीत्सञ्जयं सूतमामन्त्र्य भरतर्षभ 001c
देवपुत्रौ महाभागौ देवराजसमद्युती 002a
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ 002c
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ 003a
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ 003c
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि 004a
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ 004c
न शेषमिह पश्यामि तदा सैन्यस्य सञ्जय 004e
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ 005a
द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ 005c
वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः 006a
युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः 006c
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् 006e
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन 007a
न शक्यः सहितुं वेगः पर्वतैरपि संयुगे 007c
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः 008a
शैक्यया वीरघातिन्या गदया विचरिष्यति 008c
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः 009a
गदावेगं च भीमस्य नालं सोढुं नराधिपाः 009c
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः 010a
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा 010c
सञ्जय उवाच 011
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः 011a
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः 011c
श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः 012a
त्वरितः काम्यके पार्थान्समभावयदच्युतः 012c
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः 013a
विराटो धृष्टकेतुश्च केकयाश्च महारथाः 013c
तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान् 014a
चारेण विदितं सर्वं तन्मया वेदितं च ते 014c
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः 015a
सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः 015c
अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान् 016a
कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् 016c
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह 017a
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा 017c
यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् 018a
सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्ध्रकान् 018c
सागरानूपगांश्चैव ये च पत्तनवासिनः 019a
सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः 019c
पश्चिमानि च राज्यानि शतशः सागरान्तिकान् 020a
पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् 020c
हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा 021a
जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् 021c
एते चान्ये च बहवो ये च ते भरतर्षभ 022a
आगतानहमद्राक्षं यज्ञे ते परिवेषकान् 022c
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी 023a
आदाय जीवितं तेषामाहरिष्यामि तामहम् 023c
रामेण सह कौरव्य भीमार्जुनयमैस्तथा 024a
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च 024c
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च 024e
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत 025a
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते 025c
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् 026a
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् 026c
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे 027a
शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च 027c
प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन 028a
अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि 028c
वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव 029a
प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् 029c
तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः 030a
धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा 030c
केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् 030e
पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः 031a
दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् 031c
प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि 031e
ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा 032a
मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः 032c
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा 033a
उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले 033c
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले 034a
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् 034c
परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता 035a
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् 035c
एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः 036a
सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः 036c
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात् 037a
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः 037c
रामश्च कृष्णश्च धनञ्जयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ 038a
माद्रीसुतौ केकयराजपुत्राः पाञ्चालपुत्राः सह धर्मराज्ञा 038c
एतान्सर्वाल्ँलोकवीरानजेयान्महात्मनः सानुबन्धान्ससैन्यान् 039a
को जीवितार्थी समरे प्रत्युदीयात्क्रुद्धान्सिंहान्केसरिणो यथैव 039c
धृतराष्ट्र उवाच 040
यन्माब्रवीद्विदुरो द्यूतकाले त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र 040a
ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौघः 040c
मन्ये तथा तद्भवितेति सूत यथा क्षत्ता प्राह वचः पुरा माम् 041a
असंशयं भविता युद्धमेतद्गते काले पाण्डवानां यथोक्तम् 041c