जनमेजय उवाच 001
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने 001a
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम् 001c
कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम् 002a
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् 002c
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् 003a
वानेयमथ वा कृष्टमेतदाख्यातु मे भवान् 003c
वैशम्पायन उवाच 004
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् 004a
ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः 004c
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने 005a
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा 005c
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् 006a
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः 006c
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान् 007a
बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत् 007c
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत 008a
कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः 008c
पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान् 009a
पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः 009c
पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी 010a
मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा 010c
प्राचीं राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथ वाप्युदीचीम् 011a
धनुर्धरा मांसहेतोर्मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य 011c
तथा तेषां वसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम् 012a
पञ्चैव वर्षाणि तदा व्यतीयुरधीयतां जपतां जुह्वतां च 012c