जनमेजय उवाच 001
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः 001a
धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत् 001c
वैशम्पायन उवाच 002
शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः 002a
द्वैपायनादृषिश्रेष्ठात्सञ्जयं वाक्यमब्रवीत् 002c
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः 003a
कच्चित्तवापि विदितं यथातथ्येन सारथे 003c
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः 004a
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति 004c
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः 005a
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः 005c
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् 006a
कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः 006c
मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः 007a
येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् 007c
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः 008a
अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी 008c
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे 009a
महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् 009c
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः 010a
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः 010c
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम् 011a
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः 011c
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः 012a
वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा 012c
न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते 013a
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः 013c
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् 014a
जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ 014c
शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि सञ्जय 015a
न तु कुर्युः शराः शेषमस्तास्तात किरीटिना 015c
यथा हि किरणा भानोस्तपन्तीह चराचरम् 016a
तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् 016c
अपि वा रथघोषेण भयार्ता सव्यसाचिनः 017a
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः 017c
यदुद्वपन्प्रवपंश्चैव बाणान्स्थाताततायी समरे किरीटी 018a
सृष्टोऽन्तकः सर्वहरो विधात्रा भवेद्यथा तद्वदपारणीयः 018c
सञ्जय उवाच 019
यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति 019a
सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते 019c
मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः 020a
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् 020c
दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः 021a
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः 021c
श्रुतं हि ते महाराज यथा पार्थेन संयुगे 022a
एकादशतनुः स्थाणुर्धनुषा परितोषितः 022c
कैरातं वेषमास्थाय योधयामास फल्गुनम् 023a
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् 023c
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् 024a
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् 024c
नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात् 025a
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि 025c
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् 026a
कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् 026c
आसादितमिदं घोरं तुमुलं लोमहर्षणम् 027a
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् 027c
यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् 028a
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ 028c
ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया 029a
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः 029c
सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः 030a
सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः 030c
मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे 031a
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः 031c
धृतराष्ट्र उवाच 032
किं कृतं सूत कर्णेन वदता परुषं वचः 032a
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता 032c
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः 033a
येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते 033c
ममापि वचनं सूत न शुश्रूषति मन्दभाक् 034a
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम् 034c
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः 035a
तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः 035c
स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा 036a
निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः 036c
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः 037a
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि 037c
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः 038a
हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् 038c
इदं च सुमहच्चित्रमर्जुनस्येह सञ्जय 039a
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः 039c
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा 040a
फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च 040c
सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः 041a
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते 041c