वैशम्पायन उवाच 001
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् 001a
शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा 001c
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् 002a
प्रवेशयामासुरथो पुरन्दरनिवेशनम् 002c
एवं सम्पूजितो जिष्णुरुवास भवने पितुः 003a
उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः 003c
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् 004a
अशनीश्च महानादा मेघबर्हिणलक्षणाः 004c
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः 005a
पुरन्दरनियोगाच्च पञ्चाब्दमवसत्सुखी 005c
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते 006a
नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि 006c
वादित्रं देवविहितं नृलोके यन्न विद्यते 007a
तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति 007c
सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः 008a
स तेन सह सङ्गम्य रेमे पार्थो निरामयः 008c
कदाचिदटमानस्तु महर्षिरुत लोमशः 009a
जगाम शक्रभवनं पुरन्दरदिदृक्षया 009c
स समेत्य नमस्कृत्य देवराजं महामुनिः 010a
ददर्शार्धासनगतं पाण्डवं वासवस्य ह 010c
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे 011a
निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः 011c
तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् 012a
कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् 012c
किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः 013a
य एवमुपसम्प्राप्तः स्थानं देवनमस्कृतम् 013c
तस्य विज्ञाय सङ्कल्पं शक्रो वृत्रनिषूदनः 014a
लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः 014c
ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् 015a
नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः 015c
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः 016a
अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् 016c
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् 017a
शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् 017c
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ 018a
ताविमावभिजानीहि हृषीकेशधनञ्जयौ 018c
यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः 019a
तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् 019c
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च 020a
यतः प्रववृते गङ्गा सिद्धचारणसेविता 020c
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती 021a
भूमेर्भारावतरणं महावीर्यौ करिष्यतः 021c
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति 022a
विप्रियेषु स्थितास्माकं वरदानेन मोहिताः 022c
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः 023a
देवान्न गणयन्ते च तथा दत्तवरा हि ते 023c
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः 024a
सर्वे देवनिकाया हि नालं योधयितुं स्म तान् 024c
योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः 025a
कपिलो नाम देवोऽसौ भगवानजितो हरिः 025c
येन पूर्वं महात्मानः खनमाना रसातलम् 026a
दर्शनादेव निहताः सगरस्यात्मजा विभो 026c
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम 027a
पार्थेन च महायुद्धे समेताभ्यामसंशयम् 027c
अयं तेषां समस्तानां शक्तः प्रतिसमासने 028a
तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् 028c
भवांश्चास्मन्नियोगेन यातु तावन्महीतलम् 029a
काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् 029c
स वाच्यो मम सन्देशाद्धर्मात्मा सत्यसङ्गरः 030a
नोत्कण्ठा फाल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति 030c
नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे 031a
भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् 031c
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः 032a
नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् 032c
भवानपि विविक्तानि तीर्थानि मनुजेश्वर 033a
भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिन्दम 033c
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः 034a
राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः 034c
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले 035a
त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः 035c
गिरिदुर्गेषु हि सदा देशेषु विषमेषु च 036a
वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् 036c
स तथेति प्रतिज्ञाय लोमशः सुमहातपाः 037a
काम्यकं वनमुद्दिश्य समुपायान्महीतलम् 037c
ददर्श तत्र कौन्तेयं धर्मराजमरिन्दमम् 038a
तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् 038c