वैशम्पायन उवाच 001
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः 001a
चिन्तयामास राजेन्द्र देवराजरथागमम् 001c
ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः 002a
रथो मातलिसंयुक्त आजगाम महाप्रभः 002c
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव 003a
दिशः सम्पूरयन्नादैर्महामेघरवोपमैः 003c
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः 004a
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः 004c
तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः 005a
वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः 005c
तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः 006a
सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः 006c
दश वाजिसहस्राणि हरीणां वातरंहसाम् 007a
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् 007c
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् 008a
ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् 008c
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् 009a
दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत् 009c
तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः 010a
सन्नतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत् 010c
भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति 011a
आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य सम्मतम् 011c
आह माममरश्रेष्ठः पिता तव शतक्रतुः 012a
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः 012c
एष शक्रः परिवृतो देवैर्ऋषिगणैस्तथा 013a
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते 013c
अस्माल्लोकाद्देवलोकं पाकशासनशासनात् 014a
आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि 014c
अर्जुन उवाच 015
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् 015a
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् 015c
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः 016a
दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम् 016c
नातप्ततपसा शक्य एष दिव्यो महारथः 017a
द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु 017c
त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि 018a
पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा 018c
वैशम्पायन उवाच 019
तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः 019a
आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः 019c
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः 020a
जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः 020c
ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि 021a
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे 021c
साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् 022a
त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् 022c
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः 023a
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः 023c
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् 024a
गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि 024c
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च 025a
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः 025c
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा 026a
आरुरोह रथं दिव्यं द्योतयन्निव भास्करः 026c
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा 027a
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः 027c
सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम् 028a
ददर्शाद्भुतरूपाणि विमानानि सहस्रशः 028c
न तत्र सूर्यः सोमो वा द्योतते न च पावकः 029a
स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया 029c
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै 030a
दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि 030c
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः 031a
ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा 031c
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि 032a
तपसा च जितस्वर्गाः सम्पेतुः शतसङ्घशः 032c
गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् 033a
गुह्यकानामृषीणां च तथैवाप्सरसां गणाः 033c
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः 034a
पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह 034c
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः 035a
यान्दृष्टवानसि विभो तारारूपाणि भूतले 035c
ततोऽपश्यत्स्थितं द्वारि सितं वैजयिनं गजम् 036a
ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् 036c
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः 037a
व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः 037c
अतिचक्राम लोकान्स राज्ञां राजीवलोचनः 038a
ततो ददर्श शक्रस्य पुरीं ताममरावतीम् 038c